SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १७२] [धर्मसंग्रहः-द्वितीयोऽधिकारः इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते - 'असिइसयं किरियाणं' अशीत्युत्तरं शतं क्रियावादिनाम् , तत्र न कर्तारं विना क्रिया सम्भवति, तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः । ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः । जीवा-ऽजीवा-ऽऽश्रवबन्ध-संवर-निर्जरा-पुण्या-ऽपुण्य-मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ । तयोरधो नित्या-ऽनित्यभेदौ । तयोरप्यध: कालेश्वराऽऽत्म-नियतिस्वभावभेदाः पञ्च न्यसनीयाः पुनश्चेत्थं विकल्पाः कर्त्तव्याः -अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः । विकल्पार्थश्चायम् -विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालत: कालवादिनः । उक्तेनैवाभिलापेन द्वितीयो विकल्प: ईश्वरकारणिनः । तृतीयो विकल्पः आत्मवादिनः । “पुरुष एवेदं सर्वम्" [ऋग्वेद १०/१०/२] इत्यादि । नियतिवादिनश्चतुर्थो विकल्पः । पञ्चमविकल्पः स्वभाववादिनः । एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः । परत इत्यनेनापि पञ्चैव लभ्यन्ते । नित्यत्वापरित्यागेन चैते दश विकल्पाः । एवमनित्यत्वेनापि दशैव । एकत्र विंशतिर्जीवपदार्थेन लब्धाः । अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । ___ 'अकिरियाणं च भवति चुलसीति'त्ति अक्रियावादिनां भवति चतुरशीतिर्भेदा इति । न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः । तथा चाहुरेके - "क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया ? । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते" ॥१॥[ष.स./१४१] इत्यादि । एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः । एतेषां हि पुण्याऽपुण्यवर्जितपदार्थसप्तकन्यासः । तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः । असत्त्वादात्मनो नित्या-ऽनित्यभेदौ न स्तः । कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते । पश्चाद्विकल्पाभिलापः -नास्ति जीवः स्वतः कालत इत्येको विकल्पः । एवमीश्वरादिभिरपि १. तुला-नन्दीसूत्रमलयगिरिवृत्तिः प० २१३ B प्रवचनसारोद्धारवृत्तिः गा० ११८८ ॥ २. णाश्च शत° L.P. I C. आवश्यकहारिभद्र्यां वृत्तावपि-श्च-नास्ति ॥ ३. श्लोकोऽयं-बोधिचर्यावतारे पृ० ३७६, तत्त्वसंग्रहे प० ११, भगवतीसूत्रस्य अभयदेवसूरिवृत्तौ ३०।१, नन्दीसूत्रस्य मलयगिरिवृत्तौ प० २१५ A षड्दर्शनसमुच्चयवृत्त्यादिषु उद्धृतोऽस्ति ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy