SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७०] [धर्मसंग्रहः-द्वितीयोऽधिकार: प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च । अप्रत्याख्यानोदये सम्यक्त्वं तदतिचाराश्च भवन्तु । न्यायस्य समानत्वात् । विचित्रो ह्युदयः कषायाणाम् , ततोऽसौ गुणलाभस्याप्रतिबन्धकस्तदतिचाराणां च निमित्तं भवति, संज्वलनोदयवदिति ।। ___अन्ये पुनराहुः “सम्यक्त्वदेशविरत्यतिचाराः क्रमेण प्रथम-द्वितीयकषायोदयाद्भवन्ति । विचित्रो हि तदुदयो देशतः सर्वतश्च विराधनाया हेतुर्भवतीति । यश्च कुन्थुदृष्टान्तोऽसावसङ्गत एव, दृष्टान्तान्तरबाधितत्वात् तस्य । तथाहि -हस्तिनोऽतिलघुर्मनुष्यस्तस्य च व्रणादिः सम्भवत्येवेति । यच्चोच्यते -अनन्तानुबन्ध्यादिकषायद्वादशकस्य सर्वघातित्वेनाभिधानात् तदुदये सम्यक्त्वादीनां भङ्ग एवेति । तदयुक्तम् , सर्वविरत्यपेक्षयैव सर्वघातित्वेन तस्य शतकचूर्णी व्याख्यातत्वात् । न तु सम्यक्त्वाद्यपेक्षामिति । तथाहि तद्वाक्यम् - ___ "भगवयाप्पणीयं पंचमहव्वयमइअं अट्ठारससीलंगसहस्सकलियं चारित्तं घायंति त्ति सव्वघाइणो"[श.चू.] त्ति ॥४१॥ तदेवं सम्यक्त्वे देशविरतौ चाऽतिचारसम्भवोऽस्तीति प्रतिपत्तव्यम् , तत्र सम्यक्त्वे प्रथमं तानाह पञ्चातिचाराः सम्यक्त्वे, हेयाः शङ्कन-काङ्क्षणे । विचिकित्सा कुदृष्टीनां, प्रशंसा तैश्च संस्तवः ॥४२॥ शङ्कनं च काङ्क्षणं चेति द्वन्द्वस्ततस्ते, विचिकित्सा, कुदृष्टीनां प्रशंसा, तैश्च संस्तवश्चेति पञ्चातिचाराः 'सम्यक्त्वे' सम्यक्त्वविषये 'हेयाः' त्याज्याः । तंत्र शङ्करं शङ्का सन्देह इतियावत् । तच्च देशविषयं सर्वविषयं च। तत्र सर्वविषयम् – अस्ति नास्ति वा धर्म इत्यादि, जिनधर्मः सत्योऽसत्यो वेत्यादि वा । देशङ्कनं तु - एकैकवस्तुधर्मगोचरम् , यथाऽस्ति जीवः परं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा । पृथ्व्यादीनां कथं सजीवत्वम् ? निगोदादयो वा कथं घटन्ते? इत्यादि। द्विधाप्यर्हदुक्ततत्त्वेष्वप्रत्ययरूपं सम्यक्त्वदूषकम् १।। ____काङ्क्षणम् -अन्यान्यदर्शनग्रहः, तदपि देशविषयं सर्वविषयं च । सर्वविषयं सर्वपाखण्डिधर्माकाङ्क्षारूपम् , देशकाङ्क्षणं त्वेकादिदर्शनविषयम् , यथा सुगतेन भिक्षूणामक्लेशको धर्म उपदिष्टः स्नाना-ऽन्न-पाना-ऽऽच्छादन-शयनीयादिषु सुखानुभवद्वारेण । यदाह - १. व्रणादि-मु० C. ॥ २. तुला-योगशास्त्रवृत्तिः २/१७, प०, १८७ ॥ ३. तुला-श्राद्धप्रतिक्रमणवृत्तिः गा०६ प० २८, योगशास्त्रवृत्तिः प० १८८ ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy