SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ द्वितीयशिक्षाव्रतस्वरूपम्-श्लो० ३८॥] [१५३ सामायिकेन पादाभ्यामेव गन्तव्यम् , तच्चानुचितं भूपतीनाम् , आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं मुञ्चति, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानाऽनुत्थानकृता दोषा भूवन्निति, आगतश्चासौ सामायिकं करोतीति पूर्ववत् । एतद्वतफलं च बहुनिर्जरारूपम् । अन्यदपि च । यदाहु"दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडिअं एगो । इअरो पुण सामइअं, करेइ न पहुप्पए तस्स ॥१॥[सं.प्र.श्रा.व./११३] सामाइअं कुणंतो, समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधइ, इत्तिअमित्ताइं पलिआइं ॥२॥[सं.प्र.श्रा.व./११४] बाणवइकोडीओ, लक्खा गुणसट्ठि सहस्स पणवीसं । नवसयपणवीसाए, सतिहा अडभागपलिअस्स" ॥३॥ [सं.प्र.श्रा.व./११५] अङ्कतोऽपि ९२५९२५९२५६+ । "तिव्वतवं तवमाणो, जं न वि निट्ठवइ जम्मकोडीहिं । तं समभाविअचित्तो, खवेइ कम्मं खणद्धेणं ॥४॥[सं.प्र.श्रा.व./११६] जे केऽवि गया मोक्खं, जेऽवि अगच्छंति जे गमिस्संति । ते सव्वे सामाइअमाहप्पेणं मुणेअव्वा ॥५॥ [सं.प्र.श्रा.व./११७] "हूयते न तप्यते न, दीयते वा न किञ्चन । अहो अमूल्यक्रीतीयं, साम्यमात्रेण निर्वृतिः ॥६॥[ ] ॥३७।। इत्युक्तं सामायिकाख्यं प्रथमं शिक्षापदव्रतम् । अथ द्वितीयं तदाह - संक्षेपणं गृहीतस्य, परिमाणस्य दिग्व्रते । यत्स्वल्पकालं तद् ज्ञेयं, व्रतं देशावकाशिकम् ॥३८॥ "दिग्व्रते' प्रथमे गुणव्रते 'गृहीतस्य परिमाणस्य' यावज्जीवं संवत्सरं चातुर्मासी वा यावद् दशदिक्षु योजनशताद्यवधिकसङ्कल्पितगमनादेरित्यर्थस्तस्य 'यत्' 'संक्षेपणं' सङ्कोचनं गृहशय्यास्थानादेः परतो निषेधरूपम् , कियत्कालम् ? इत्याह 'स्वल्पकालं' मुहूर्तप्रहरदिनाहोरात्रादि यावत् । यतः - १. ने-P. || २. दोषाः अभूव मु० । P.C. योगशास्त्रवृत्तावपि दोषा भूव इति ॥ ३. P.C. सम्बोधप्र. अङ्कतोऽपि ९२५९२५९२५३-मु० ॥ ४. व्वं-इति सम्बोधप्रकरणे ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy