SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४४] [धर्मसंग्रहः-द्वितीयोऽधिकारः इत्युक्तं भोगोपभोगव्रतम् । अथ तृतीयमनर्थदण्डविरमणाख्यं गुणव्रतमाह - शरीराद्यर्थविकलो, यो दण्डः क्रियते जनैः । सोऽनर्थदण्डस्तत्त्यागस्तार्तीयीकं गुणव्रतम् ॥३५॥ शरीरं-देह आदिशब्दात् क्षेत्र-वास्तु-धन-धान्य-परिजनादिपरिग्रहस्तद्विषयो योऽर्थः -प्रयोजनं तेन विकलो-रहितो निष्प्रयोजन इत्यर्थः, 'यो' 'दण्डः' दण्ड्यते पापकर्मणा लुप्यते येन स दण्ड: भूतोपमर्दः, 'जनैः' मुग्धलोकैः ‘क्रियते' विधीयते 'सोऽनर्थदण्डः' निष्कारणभूतोपमईलक्षणो दण्ड इतियावत् , 'तत्त्यागः' तत्परिहार: 'तार्तीयीकं' तृतीयमेव तार्तीयीकं स्वार्थे *टीकण्प्रत्ययः, गुणवतं भवतीत्यक्षरार्थः । भावार्थस्त्वयम् –यः स्वस्वीयस्वजनादिनिमित्तं विदीयमानो भूतोपमर्दः सोऽर्थदण्ड: सप्रयोजन इतियावत् । प्रयोजनं च येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽर्थदण्डः, विपरीतस्त्वनर्थदण्ड इति । यदाह - "जं इंदियसयणाई, पडुच्च पावं करेज्ज सो होई। अत्थे दंडो इत्तो, अन्नो उ अणत्थदंडो त्ति" ॥१॥[सं.प्र.श्रा./९८] ॥३५।। उक्तमनर्थदण्डविरमणव्रतस्वरूपम् । अथानर्थदण्डभेदानाह - सोऽपध्यानं पापकर्मोपदेशो हिंसकापर्णम् ।। प्रमादाचरणं चेति, प्रोक्तोऽर्हद्भिश्चतुर्विधः ॥३६॥ 'स' अनर्थदण्ड: 'अपध्यानं' 'पापकर्मोपदेशो' 'हिंसकार्पणं' 'प्रमादाचरणं' च 'इति' एवम्प्रकारैश्चतुर्विधः 'अर्हद्भिः' जिनैः 'प्रोक्तः' प्रज्ञप्तः । यतः सूत्रम् - "अणत्थदंडे चउव्विहे पण्णत्ते तंजहा -अवज्झाणायरिए, पमायायरिए, हिंसप्पदाणे, पावकम्मोवएसे अ" [आवश्यकमूलसूत्र ४५ ] त्ति । ___ तत्राप्रशस्तं यत् ध्यानं -स्थिराध्यवसानलक्षणं तदपध्यानम् , तच्चार्तरौद्रभेदाद् द्विधा। तत्र ऋतं -दुःखं तत्र भवमार्त्तम् , यदि वा आतिः-पीडा यातनं च तत्र भवमार्त्तम् । रोदयति परानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम् , एतत्परिमाणं चान्तमुहूर्तम् । यतो हेमसूरिपादाः ___* "तीयाट्टीकण न विद्या चेत्" सिद्धहेम० ७-२-१५३ । इति सूत्रेण ॥ १. पं० २० अवL.P. || पातं अव' C. || २. तुला-योगशास्त्रटीका ३/७३ प० ४६८ ॥ ३. अत्तिः पीडा याचनंयोगशास्त्रवृत्तौ प० ४६८ ॥ ४. तुला-योगशास्त्रवृत्तिः प० ४६९ ।।। D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy