________________
द्वितीयाणुव्रतस्वरूपम्-श्लो० २६॥]
[११५ ऽपलापस्तद्वचनं स्थूलमृषावादः । इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम् , अस्य चादत्तादाने (नत्वे) सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वम् ४। कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः 'यथाऽहमत्र साक्षी'ति । अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः ५ इति ।
अत्रायं भावार्थः -मृषावादः क्रोध-मान-माया-लोभ-त्रिविधराग-द्वेष-हास्य-भयव्रीडा-क्रीडा-रत्यरति-दाक्षिण्य-मौखर्य-विषादादिभिः सम्भवति । पीडाहेतुश्च सत्यवादोऽपि मृषावादः, सद्भ्यो हितं सत्यमिति व्युत्पत्त्या परपीडाकरमसत्यमेव । यतः
“अलिअंन भासिअव्वं, अस्थि हु सच्चं पि जं न वत्तव्वं ।
सच्चं पि तं न सच्चं, जं परपीडाकरं वयणं" ॥१॥[सं.प्र.श्रा.व्रता./१६ ] स च द्विविधः, -स्थूलः सूक्ष्मश्च । तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवश्च स्थूलः, तद्विपरीतः सूक्ष्मः । आह हि -
"दुविहो अ मुसावाओ, सुहुमो थूलो अ तत्थ इह सुहमो ।
परिहासाइप्पभवो, थूलो पुण तिव्वसंकेसा" ॥१॥ [सं.प्र.श्रा.व्रता./१७] श्रावकस्य सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव । तथा चावश्यकसूत्रम् -
"थूलगमुसावायं समणोवासओ पच्चक्खाइ, से अ मुसावाए पंचविहे पण्णत्ते, तं जहा -कण्णालिए १, गवालिए २, भोमालिए ३, णासावहारे ४, कुडसक्खे य ५" [ प्रत्याख्यानावश्यक सू० २ हारिभद्रीयवृत्तौ प० ८२० ] इति । __ तच्चूर्णावपि -"जेण भासिएण अप्पणो परस्स वा अतीव वाघाओ अहिसंकिलेसो अ जायते, तं अट्ठाए वा अणट्ठाए वा ण वएज्ज" त्ति [ आवश्यकचूर्णी भा० २ प० २८५] |
एतच्चासत्यं चतुर्द्धा –भूतनिह्नवः १ अभूतोद्भावनम् २ अर्थान्तरं ३ गर्दा च ४। तत्र भूतनिह्नवो यथा –नास्त्यात्मा नास्ति पुण्यं नास्ति पापमित्यादि १। अभूतोद्भावनं यथाऽऽत्मा श्यामाकतन्दुलमात्रोऽथवा सर्वगत आत्मेत्यादि । अर्थान्तरं यथा -गामश्वमभिवदतः ३। गर्हा तु त्रिधा, एका सावधव्यापारप्रवर्तिनी, यथा क्षेत्रं कृषेत्यादि १, द्वितीया अप्रिया काणं काणं वदतः २, तृतीया आक्रोशरूपा यथा अरे ! बान्धकिनेय इत्यादि ।
१. चादत्तादाने(नत्वे)-मु० । चादत्तादाने-L.P.C.J. ॥ २. तच्चा-L. I तुला-योगशास्त्रवृत्तिः २।५७, प० २७९ ॥ ३. गामश्वमभिदधतः-इति योगशास्त्रवृत्तौ २।५७ ॥
D:\new/d-1.pm53rd proof