SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ९४] [धर्मसंग्रहः-द्वितीयोऽधिकारः ___ "अहन्नं भंते ! तुम्हाणं समीवे गुणव्वयतिए उड्डाहोतिरिअगमणविसयं दिसिपरिमाणं पडिवज्जामि । उवभोगपरिभोगवए भोअणओ अणंतकायबहुबीअराईभोअणाई परिहरामि, कम्मओ णं पनरसकम्मादाणाइं इंगालकम्माइआई बहुसावज्जाइं, खरकम्माई रायनिओगं च परिहरामि । अणत्थदंडे अवज्झाणाइअं चउव्विहं अणत्थदंडं जहासत्तीए परिहरामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते ! पडिक्कमामीत्यादि ६-७-८ ॥ त्रीण्यपि समुदितानि वार ३" । "अहन्नं भंते ! तुम्हाणं समीवे सामाइअं, देसावगासिअं, पोसहोववासं, अतिहिसंविभागवयं च जहासत्तीए पडिवज्जामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते पडिक्कमामीत्यादि ९-१०-११-१२ ॥ चत्वार्यपि समुदितानि वार ३"। "इच्चेइअं संमत्तमूलं पंचाणुव्वइअं सत्तसिक्खावइअं दुवालसविहं सावगधम्म उवसंपज्जित्ता णं विहरामि । वार ३" ॥२३॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह - स्थूलहिंसादिविरतिं, व्रतभङ्गेन केनचित् । अणुव्रतानि पञ्चाहुरहिंसादीनि शम्भवः ॥२४॥ इह हिंसा प्रमादयोगात् प्राणव्यपरोपणरूपा, सा च स्थूला सूक्ष्मा च । तत्र - सूक्ष्मा पृथिव्यादिविषया, स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या सा । स्थूलानां वा त्रसानां हिंसा स्थलहिंसा, आदिशद्वात् स्थूलमृषावादा-ऽदत्तादानाऽब्रह्म-परिग्रहाणां परिग्रहः । एभ्यः स्थूलहिंसादिभ्यो या विरतिनिवत्तिस्तां 'अहिंसादीनि'इति, अहिंसासुनृताऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहान् अणूनि साधुव्रतेभ्यः सकाशाल्लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, अणोर्वा यत्यपेक्षया लघोर्लघुगुणस्थानिनो व्रतान्यणुव्रतानि । अथवाऽनु पश्चान्महाव्रतप्ररूपणापेक्षया प्ररूपणीयत्वात् व्रतान्यणुव्रतानि । पूर्वं हि महाव्रतानि प्ररूप्यन्ते, ततस्तत्प्रतिपत्त्यसमर्थस्याणुव्रतानि । यदाह - "जइधम्मस्सऽसमत्थे, जुज्जइ तद्देसणं पि साहूणं" [ ] ति । तानि कियन्ति ? इत्याह –'पञ्चे'ति, पञ्चसङ्ख्यानि पञ्चाणुव्रतानीति । बहुवचननिर्देशेऽपि यद्विरतिमित्येकवचननिर्देशः, स सर्वत्र विरतिसामान्यापेक्षयेति । 'शम्भवः' तीर्थकराः 'आहुः' १. रायभियोगं-मु० ॥ २. भंते इत्यादि-P.L. || ३. जावजीवाए-मु० C. ॥ ४. भंते इत्यादिP.L. ॥ ५. तुला-योगशास्त्रवृत्तिः २।१८ प० १९१।। ६. ०त्थो-L.P.C. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy