________________
सम्यक्त्वस्य लक्षणानि-श्लो० २२॥]
[७५ ___ अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम् , तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः । तद्वान् हि आस्तिक इत्युच्यते । यदाह - "मण्णइ तमेव सच्चं, नीसंकं जं जिणेहि पण्णत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तिआरहिओ" ॥५॥
[वि.वि.६/१४, श्रा.प्र./५९, ध.सं.णी/८१२] त्ति । यत्राप्यस्य मोहवशात् क्वचन संशयो भवति, तत्राप्यप्रतिहतेयमर्गला श्रीजिनभद्रगणिक्षमाश्रमणोदिता। "कत्थय मइदुब्बलेणं, तव्विहआयरिअविरहओ वा वि । नेअगहणत्तणेण य, नाणावरणोदएणं च" ॥१॥ [सं.प्र.४८/ध्या.श.४७ ] हेऊदाहरणासम्भवे अ, सइ सुट्ठ जं न बुज्झज्जा। सव्वण्णुमयमवितह, तहा वि तं चिंतए मइमं ॥२॥ [सं.प्र.४९/ध्या.श.४८ ] अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जिअरागदोसमोहा य, नन्नहा वाइणो तेणं" ॥३॥ [सं.प्र.५०/ध्या.श.४९] यथा वा"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं, हि नः प्रमाणं जिनाभिहितम्" ॥१॥ इति ।
अन्ये तु शमादिलिङ्गान्यन्यथा व्याचक्षते-सुपरीक्षितप्रवक्तृप्रवाद्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवेशोपशम:(शम:)। स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनवानिति । ___ संवेगो भयम् , जिनप्रवचनानुसारिणो नरकेषु शीतोष्णादिसहनं संक्लिष्टासुरादिनिर्मित्तं परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं, मनुजेषु दारिद्रयदौर्भाग्यादि, देवेष्वपीर्ष्याविषादपरप्रेष्यत्वादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुष्ठाता लक्ष्यते-विद्यतेऽस्य सम्यग्दर्शनमिति ।
निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गो
१. धर्मो-मु० P.C. | कर्मों-L संशो० योगशास्त्रप्रवचनसारोद्धारवृत्त्योः ॥ २. “मा-मु० । “मोL.P.C. योगशास्त्रवृत्तावपि ॥ ३. कत्थइ-L । तत्थ य-इति ध्यानशतके ॥ ४. नेअ० मु० सि० । भेअ० P.L. ।। ५. तुला-योगशास्त्रवृत्तिः २।१५ प० १८३ । तत्त्वार्थसूत्रवृत्तिकारस्य सिद्धसेनगणिनः अयमभिप्रायः, दृश्यतां तत्वार्थवृत्तिः १।२।। ६. शमः-L.P.C. नास्ति, योगशास्त्रवृत्तावस्ति ।।
D:\new/d-1.pm53rd proof