________________
६६ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
एकेन पदेनानेकपदतदर्थप्रतिसंधानद्वारा उदके तैलबिन्दुवत् प्रसरणशीला रुचिबजरुचिः, प्रसार उत्तरोत्तरोत्पत्ति: ५।
अर्थतः सकलसूत्रविषयिणी रुचिरभिगमरुचिः । आह च –
"सो होइ अभिगमरुई, सुअनाणं जस्स अत्थओ दिट्टं ।
इक्कारस अंगाई, पइन्नगं दिट्टिवाओ अ" ॥१॥ [प्र.सा./ ९५६ ]त्ति । प्रकीर्णकमिति जातावेकवचनम्, ततः प्रकीर्णकानि उत्तराध्ययनादीनीत्यर्थः, दृष्टिवादश्चेति चकारादुपाङ्गादिपरिग्रहः । नन्वेवमियं सूत्ररुचेर्न भिद्येत, न चेयमर्थावच्छिन्नसूत्रविषया, सा च केवलं सूत्रविषयेत्येवं भेदः, केवलसूत्रस्य मूकत्वात्, तद्विषयरुचेरप्रमाणत्वात् । आह च - "मूअगं केवलं सुत्तं " [ उपदेशपदे गा. ८५६ ]त्ति । न केवलं केवलसूत्ररुचेरप्रमाणत्वम्, किन्त्वज्ञानानुबन्धित्वमपि । तदुक्तमुपदेशमालायाम् - 'अपरिच्छिअसुअणिहसस्स केवलमभिन्नसुत्तचारिस्स ।
सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पड्ड्” ॥१॥[ उप.मा./गा.४१५ ]त्ति । 'अभिन्नं' ति अविवृतम्, इति चेत् ?, सत्यम्, सूत्ररुचावर्थस्यार्थरुचौ च सूत्रस्य प्रवेशेऽपि सूत्रार्थाध्ययनजनितज्ञानविशेषकृतरुचिभेदाद् भेदः । अत एव सूत्राध्ययनादर्थाध्ययनेऽधिको यत्न उपदिष्ट उपदेशपदे । तथाहि
"सुत्ता अत्थे जत्तो, अहिगयरो णवरि होइ कायव्वो ।
इत्तो उभयविसुद्धि त्ति, मूअगं केवलं सुत्तं ॥१॥ [ उप.प./गा.८५६ ] ति । अथवा सूत्र-निर्युक्त्यादिग्रन्थविषयरुचिभेदाद् भेदः । अत एवाज्ञारुचि: सूत्ररुचेर्भिन्ना निर्युक्त्यादिविषयत्वेन स्थानाङ्गवृत्तौ प्रतिपादितेति ६ ।
सर्वप्रमाणसर्वनयजन्यसर्वद्रव्यसर्वभावविषयिणी रुचिर्विस्ताररुचिः ७।
दर्शन-ज्ञान-चारित्र-तपो- विनयाद्यनुष्ठानविषयिणी रुचिः क्रियारुचिः । न चाज्ञारुचिरपि धर्मानुष्ठानविषया इयमपि तथेति कोऽनयोर्भेदः ? इति शङ्कनीयम्, सा ह्याज्ञास्मरणनियता, इयं त्वसङ्गेत्येवं भेदाद् । अत एव सर्वसात्म्येन परिणतचारित्रक्रियाश्चारित्रकाया महर्षयो भणिता । “इत्तो उ चरित्तकाओ" [ ]त्ति वचनेन हरिभद्राचार्यैः ८ ।
अनभिगृहीतकुदृष्टेः प्रवचनाविशारदस्य निर्वाणपदमात्रविषयिणी रुचिः सङ्क्षेपरुचिर्यथोपशमादिपदत्रयविषयिणी चिलातिपुत्रस्य । न च विशेष्यभागरहितं विशेषणद्वयमात्रमेतल्लक्षणं युक्तम्, मूर्छादिदशासाधारण्यात् ९।
D:\new/d-1.pm5\3rd proof