SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सञ्चयः स्फूर्म-ज्ञाननभोमणिप्रसृमरज्योतिःसमुज्जृम्भिते, विद्वन्मानसवारिभूरुहवने लीलां वितन्त्रन्नलम् । प्रोद्यत्तालतमालकज्जलकलच्छायैककायद्युते ! , श्रीनेमे ! वरचञ्चरीकतुलनामालम्बसे त्वं विभो ! ॥१४॥ कालेऽस्मिन् कलिनामके सुरतरुः स्वर्गाङ्गणं सङ्गतः, . कामं कामगवी न वीक्षणपथेऽप्यायाति केषां क्वचित् । नष्टः कामघटोपि दृष्टिपदवीभ्रष्टश्च चिन्तामणि स्तेषामेष पदेऽस्ति सम्प्रति भवानैव प्रभो ! भूतले ॥१५॥ एवं मन्दधिया मयाऽपि किमपि स्वामिन् स्तुतेर्गाचरं, नीतोऽसि स्वमतिप्रकल्पितवचोन्यासैरसारैरपि । त्रैलोक्यैकगुरुं भवन्तमपरं याचे न किञ्चिद्वरं, किन्त्यका भवदीयपादयुगलोपास्तिदैवाऽस्तु मे ॥१६॥ इतिगिरिगिरिनारोत्तुङ्गशृङ्गावतंसं, जिनवरमिह नेमि यो जनोऽनन्यचेताः । निजहृदयनभक्तिप्रेरितः स्तौति नित्यं, शिवसुखमचिरेणाप्यनुतेऽसावनन्तम् ॥१७॥ मालिनी इति श्रीसोमसुन्दरसूरिकृतः श्रीगिरिनारगिरिमण्डनश्रीनेमिजिनस्तवः! अथ श्रीस्तम्भनपार्श्वनाथपञ्चविंशतिका (३) ( भुजङ्गप्रयातम् ) स्फुरत्केवलज्ञानचारुप्रकाशं, फणामण्डपाडम्बरोद्योतिताशम् । महाकर्मपङ्कौघनाशे दिनेशं, स्तुवे स्तम्भनाधीशपाच जिनेशम् ॥१॥ प्रभो ! सद्गुणश्रेणिलक्ष्मीनिवास, भवन्तं प्रदत्तान्तरारिप्रवासम् । जगद्वन्द्यपादाम्बुज कोऽस्तहासं, जनः स्तोतुभीष्टे लसद्देवदासम् ॥२॥ महानन्दलीलाविलासैकगेहं, तथापि प्रभो ! किञ्चन त्वां स्तुवेऽहम् । महाभक्ति रागेरितो नीलदेहं, जिनाऽज्ञोऽपि भव्यावलीपूरितेहम् ॥३॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy