SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ किञ्चिद्वक्तव्यम् अयि विबुधाः ! जिनवरभक्तिरससक्तचेतसां भवतां करसरोरुहे जैनस्तोत्रसञ्चयस्य द्वितीयोऽयं विभागः सादरं समर्प्यते । अत्र आचार्यश्रीसोमसुन्दरमूरीणां तच्छिष्यरत्नश्रीमुनिसुन्दरसूरीणां च कृतयः सन्ति । श्रीसोमसुन्दरसूरे जन्म प्रल्हादनपुरे सज्जन श्रेष्ठिनो माल्हणदेव्याः कुक्षौ विक्रमसंवत् १४३० वर्षे, दीक्षा सं. १४३७ वर्षे, वाचकपदं १४५० वर्षे, सूरिप सं. १४५७ वर्षे, विधायानेकधर्म्यकर्माणि सं १४९९ वर्षे दिवं जगाम । श्रीमतः श्रीमुनिसुन्दरसूरिप्रमुखा बहवः शिष्याः आसन् । एतदर्थे विशेष जिज्ञासुभिर्विलोकनीयं श्रीसोमसौभाग्यकाव्यम् । श्रीमुनिसुन्दरसूरेः जन्म वि. १४३६ वर्षे, दीक्षा सं. १४४३ बर्षे, १४४६ वर्षे वाचकपदं सूरिपदे १४७८ वर्षे, स्वर्गवासः १५०३ वर्षे कार्तिक शुक्लप्रतिपदूदिने । एतासां कृतीनां मुद्रणयोग्य पत्राणि ( प्रेसकोपी ) पू. आगमोद्धारकआचार्यप्रवर श्री आनन्दसागरसूरीश्वरैः मत्पार्श्वे वि. २००५ वर्षे कारितानि स्वयं च शोधितानि जैनानन्दपुस्तकालयात् प्राप्तानि तदाधारेण संशोध्य प्रकाशीकृताः कृतयः इति निवेदयति २०१६ मागशीर्षशुक्लपञ्चमी राजनगरे "Aho Shrut Gyanam" - चन्दनसागरगणिः
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy