SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जिनस्तवः ना मद्यपानजनितो विकारो मदः-क्षीयता, मद इव मदः पारवश्यत्वात् , मदवासी मोहश्च-मोहनीयकर्म च मदमोहः, * जह मजपाणमूढो लोए पुरिसो परव्यसो होइ। तह मोहेण मूढो जीवोवि परब्यसो होइ ।।१।' इति तेन विवर्जितं । मदशब्दस्थाहङ्कारत्वे व्याख्यायमाने जितकषायमित्यनेन सह पौनरुक्त्यं स्यात् । कषायाणां मोहान्तर्गतत्वेऽपि पृथगुपादानं संसारकारणेषु प्राधान्यख्यापनार्थ । 'त्रिसङ्घातेन' सम्यग्दर्शनज्ञानचारित्ररूपरत्नमीलनेन साधकतमेन, तीर्णसङ्गं, तीर्णः सङ्ग:-कर्मनोकर्मसम्बन्धरूपः संयोगो येन तं, शरीरमित्यर्थः । अथवा त्रिसङ्घातेन स्तोष्ये इति योज्यं, तत्र त्रयाणां वक्ष्यमाणलोचनादिवर्णवस्तूनां सङ्घातः तेन। अथाऽत्र स्वर्णसिद्धि ( प्रकरणे ) प्रकारेण व्याख्या-तिसृणामौषधीनां रक्तदुग्धिकासोमवल्लीबहुफलीनां सङ्घातेन - समवायेन 'थोसामि' त्ति, स्वेदनमुखोद्घाटनजारणादिविधि विधास्यामि। तत्र स्वेदनं-गोमहिष्यजानरखरमूत्रैः काजिकसहितैदोलायत्रेण, जारणं बिडनिष्पादनेन गोरोचनास्फटिकानवसारगन्धकहरितालस्यन्दसौभाग्यरूपं औषधषटकचूर्ण समांशं अजापित्तके निक्षिप्य मासमेकं चूल्लया उपरि धार्य । इत्थं बिडं निष्पाद्य मुखमुद्घाटयते, तच्चेद्यं कृत्वा कृष्णाभ्रकपत्रं कृत्वा यवारनालमध्ये प्रहराष्टकं निक्षिप्य फागकन्दलैर्दुर्वानाला सह वस्त्रेण गाल्यते, तद्र्व्यरूपं रसदोषविवर्जितं । रसस्य हि त्रयो दोषा मलं शिखी विषं चेति । ततो ' मयमोहविवज्जियं ' इति, अनेन "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy