SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ૨૪ अष्टादश प्रदक्षिणीकृतयुवत् , केवलिभ्यो भवत्सभाम् । संश्रितेभ्यो विदः स्पष्टं केन वैनयिकक्रमम? ।५। अव-दक्षिणां प्रगती प्रदक्षिणौ, 'प्रात्यवपरि०' ।३।११४७। इति समासः । अतौ तौ क्रियेथे स्मेति प्रदक्षिणीकृतौ, प्रदक्षिणीकृतौ युवां यैस्तेभ्यः, 'गम्ययपः कर्म ' १२।२१७४। इति पञ्चमी, भ्यसो ' उसेश्चाद् । १२।१।१९। इति अद् । विनय एव वैनयिकं. ' विनयादेरिकण ' ॥ ५ ॥ स्वविहारक्रमपावकयुवाकमुवी महाविदेहानाम् । स्पृहयेद् बुधो न कस्क: सदावहन्मोक्षनगरपथाम् ।। __ अव०-स्वविहारस्य क्रमेण - परिपाट्या, पावकोपावित्र्यकारको युवां येषां विदेहानां तेषां, भरतैरावतेभ्यो महत्त्वात् महान्तश्च ते विदेहाश्च महाविदेहाः । एकपदव्यभिचारेऽपि विशेषणसमासो दृश्यते । यथा शेषाहिः, अबू द्रव्यं, पृथिवी द्रव्यमित्यादि । बहुवचनं चात्र सीमन्धराधर्हच्चतुष्टयविहारकल्याणकादियोगहेतुकान् अन्यक्षेत्रातिशायिनः स्याद्वादनीत्या कथञ्चिदभिन्नान् महाविदेहानां बहून गुणान् सूचयति । सदा वहन् मोक्षनत्ररस्य पथो यस्यां उर्ध्या तां, वहति सार्थ इत्यादिष्विव अत्र वहिरकर्मकः सातत्यगमनार्थः अविच्छिन्नमुक्तिगच्छन्नैकजनाश्रितत्वेन उपचारात् मुक्तिमार्गोपि वहन्नुच्यते, मञ्चाः क्रोशन्तीत्यादिवत् ॥ ६॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy