SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्तोत्री ____ अव०-उरीकृतौ-स्वामितया अङ्गीकृतौ युवां याभ्यां ताभ्यां, 'आरादर्थैः' २।२।७८ इतिपञ्चमी । असुप्रभू सुप्रभू भवथः स्म, च्वौ 'गत्यर्थाकर्मक०' ५।१।११। इति कर्तरि क्ते सुप्रभू भूतौ युवा ययोस्तयोः ॥ ४ ॥ मनसि न्यस्तयुवयो-र्लसन्त्यखिलसम्पदः। विभक्तिसप्तकेनैवं, स्तुतो श्रीजिननायकौ ॥५॥ चतुर्भिः स्वीनरावृत्या सम्बद्धैःकलापकम् । अव:-न्यस्तौ युवां याभ्यां तयोः । पाठान्तरे आधेययुवयो: 'सर्वे दधत्याधेयतां गुणा' इति रूपे आधेयौ युवां ययोस्तयोः स्त्रीनरयोः, सर्वगुणा आधेयता दधति, तं स्वाधिकरणं कुर्वन्तीतिभावः ।। ५ ।। युष्मत्पदान्यपदगद्विवचनगर्भोक्तियुक्तिरम्येण । स्तवनेन संस्तुतौ स्तां पार्श्वसुपाश्वौ प्रसन्नौ मे ॥६॥ इतियुष्मच्छब्दबहुव्रीहिद्विवचनगर्भः श्रीपार्श्वसुपार्श्वस्तवः ।। अव-स्ताम्-असक् भुवि, पञ्चमी तां 'नास्न्योलक' ४१२१९०। इति अलुक् । इति पञ्चमस्तवावचूरिः ।। अथ साधारणजिनस्तवः । कल्पद्रुचिन्तामणिकामधेनु मुख्यार्थसार्थाधिकयत्प्रणामान् । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy