SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्केश्वरपार्श्वनाथस्तवनम् ५७ वाचकमेघविजयरचितम् । . ।श्रीशलेश्वरपार्श्वनाथस्तवनम् । ॐ ह्रीं क्लीं अर्ह ऐं नम: सिद्धम् । श्रीसारणाचलमहेश्वरसन्निधाने, सम्पत्करी शिवपुरीनगरी सुरीभिः । (स)तद्राज्यभाजि ननु राजनि वैरिशल्ये, शङ्केश्वरो विजयतां जिनपार्श्वनाथः ॥१॥ स्पष्टीबभूव भविनां भुवि भागधेयाद्, ध्येयातिशायि-सुखदायि-सुनामधेयः । शवेश्वरस्तनुमयूखदिनेश्वरोऽर्हन्, नेत्राऽमताञ्जनजगत्प्रियरूपधेयः ।।२।। ॐकार एष सविशेषविधेविधाने, श्वेतातपत्ररुचिसम्भतचारुमतिः । देवाऽसुरोरगनरेश्वरसेविताही, राज्यश्रियं त्रिभुवनस्य दधाति पावः ॥३॥ नैतादृश स्त्रिभुवने जनताभिनेता, __ योगीश्वरोऽपि विबुधाधिपतेः श्रियाढ्यः। शैवस्थितं (ति) वपुषि दर्शयते जिनोऽपि, ब्रह्मक्रियापरिणतः स्वत एव भास्वान् ॥४॥ १. ध्येयान् अतिशेते यत् इति ध्येयातिशायि सुखं दत्ते यत् इति सुखदायि ध्येयातिशायि च सुखदायि च सुनामधेयं यस्य स इतिविग्रहः । २. तनुः-शरीरं तस्य ये मयूखाः शरीरस्य तेजोऽञ्चितत्वात् किरणानि तैः दिनेश्वरः सूर्य इव योऽसौ इति समासः । ३. जिनोऽपिरागद्वेषजयकारी अपि ब्रह्मक्रियया-योगसम्बन्धिप्रक्रियानुगतपरमा "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy