SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ त्रिदश- तरङ्गिणी भवति भवसितांशौ सेंहिकेयः प्रभावात्, स भविसभवितीर्णाऽऽनन्दलक्ष्मीः स्यात् ॥१६॥ विश्वाङ्गिवर्ग हे सदय ! सद्भाग्ययोगात् हे महिममहिमहिम्नां मही- पृथ्वी उत्पत्तिस्थितिवृद्धिविलासादिस्थानमिति भावः । उत्सवानां श्रेणीनां (श्रीणां ) च बाहुल्यकरणाद् वर्षमिव वर्षम् । (भवसितांशी ) संसारचन्द्रे तद्ग्रासादयदीप्त्यादिहननात् सैंहिकेयोराहुः । प्रभावात् स्वमहिम्ना रोगदुर्भिक्षाऽन्यायदारिद्यादिदुःखहरणाद्भविनां सभायाः 'शालां विना सभे'ति । [ लिंगानु० ] नपुंसकत्वे भविसभस्य वितीर्णाऽऽनन्दलक्ष्मीर्येन स तथा ॥ १६ ॥ कमनकमनहेतुर्भक्तितो यस्य कुन्थोः, सकलसकलमुत्यं ब्रह्मशर्माऽश्नुतेऽङगी । भर सुभर सुखौघस्याऽस्य तां नेतुरात्मन् ! ४५ वसति वसति हृष्टा यत्त्वयीशे शिवश्रीः || १७ || कमनस्य -- कामस्य, कमनं-कान्तिः सर्वत्रास्खलितविलासादिरूपा सदुपदेशादिभिस्तद्धरणशीलस्य । सकलैः सर्वैः सकलैःसम्यग् ज्ञानादिकलावद्भिर्नुत्यं - स्तुत्यम् अभिलषणीयमिति भावः । मुक्ति । अस्य कुन्थोः स्वामिनः तां भक्ति भर-पुषाणेति योगः । सुभरा - अनायास पोषाः सुसाधा इतिभावः । सुखौघा नृसुरशिवसम्बन्धिनो यस्माद् । हे आत्मन् ! त्वयि आधारभूते ईशेसम्यगृज्ञानधान्यादिभिः स्वपररक्षणक्षमे शिवश्रीर्वासयोग्यात्मनां स्वल्पत्वाद्दं लभलाभे च हर्ष भवनात्सदालयप्राप्तिः हृष्टेव वसतीति योगः ।।१७।। कृतसुकृतसुयत्ना हे बुधाः ! शुद्धभावादरमदरमधीशं श्री जिनानां सदापि । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy