SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ २७ त्रिदश-तरङ्गिणी एवं नित्यनिरञ्जनाऽव्ययपदं श्रीपार्श्वनाथं मुदा, शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽद्वयो, मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥९॥ इतियुगप्रधाना० स्रोतसि जीरापल्लोपार्श्वस्तवनाष्टकनामा एकादशस्तरङ्गः ॥ द्वादशस्तरङ्गः । कलाक्रान्ता कान्ता न विषयमिता वाङमनसयोः समन्मीलत्सान्द्राऽनुपरमदयानन्दविनवा । निरूपा योगीन्द्रैः सुविशदधिया यात्यवहितैरियं रूपं यस्याः श्रुतजलधिदेवी जयति सा ॥१॥ चञ्चत्कुण्डलिनीनिरुद्धपवनप्रोद्दीपितप्रस्फुरत्प्रत्यग्ज्योतिरिनांशुभासितमहाहृत्पद्मकोशोदरे । शुद्धध्यानपरम्परापरिचिता रंरम्यते द्योमिन्म (द्योऽमितं), या हंसीव मयि प्रसत्तिमधुरा भूयादियं भारती ॥२॥ या पुज्या जगतां गरोरपि गरुः सर्वार्थपावित्र्यसः, शास्त्रादौ कविभिः समीहितकरी संस्मृत्य या लिख्यते । सत्तां वाङमयवारिधेश्च कुरुतेऽनन्तस्य या व्यापिनी, वाग्देवी विदधातु सा मम गिरां प्रागल्भ्यमत्यद्भतम् ॥३॥ नाभिकन्दसमुदगता लघवती या ब्रह्मरन्ध्रान्तरे, शक्तिः कुण्डलिनीतिनामविदिता क्वापि स्तुता योगिभिः । प्रोन्मीलन्निरुपाधिबन्धुरपरानन्दाऽमृतस्राविणी, सूते काव्यफलोत्करान् कविवरैर्नीता स्मृतेर्गोचरम् ॥४॥ या नम्या त्रिदशेश्वरैरपि नुता ब्रह्मेशनारायणैभक्तेर्गोचरचारिणी सुरगुरोः सर्वार्थसाक्षात्करी । बीजं सष्टिसमद्भवस्य जगतां शक्तिः परा गीयते, "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy