SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॐ नमो जिनाय ॥ सहस्रावधानिश्री मुनिसुन्दरसूरिवरविरचिता स्तवपञ्चविंशतिका । अथ मङ्गलशब्दार्थस्तवनम् १ ( अनुष्टुप् ) जय श्री जिनकल्याण - वल्लीपवनाम्बुद ! | मुनीन्द्रहृदयाम्भोज - विलासवरषट्पद ! ॥१॥ तव नाथ ! पदद्वन्द्व सपर्यारसिका जनाः । सर्वसम्पत्सुखश्रीभिर्विलसन्ति सदोदयाः ||२॥ नृलोके चक्रिताद्या याः, स्वर्लोके चेन्द्रतादय: । शिवेऽनन्तसुखाद्यास्तास्तव भक्तिवशाः श्रियः ॥३॥ सर्वश्रेयः श्रियां मूलं ददद्धर्म समग्रवित् । योगक्षेमकरो नाथस्त्वमेव जगतामसि ॥४॥ त्वमेव शरण बन्धुत्वमेत्र मम देवता । तन्नां पाहि भवात्तात ! कुरु श्रेयःसुखास्पदम् ||५|| इति मङ्गलशब्दार्थस्तवनम् । अथ मङ्गलशब्दार्थस्तवः २ ( उपजातिः ) 1 जयश्रियां धाम सुधामधारिन् !, सुत्रामदामार्चित ! देवदेव ! त्रिलोकपूजातिशयाभिगम !, प्रकाममानन्दननन्दनेतः वर्गत्रयस्यार्जनबद्धचेतसः, सुचेतसः कर्मसु सत्सु सूद्यमाः । ददात्यदो नाथ ! तत्र स्तवोऽत्र तदू, बुधा यतन्ते सकलाः फलार्थिनः ॥२॥ अयं महानन्दपदातये सतां हेतुर्विंशुद्धः प्रथितो मनीषिषु । इति प्रवीणा मुनयोऽपि ते स्तवे, रतिं दुधन्ते मत्र भोगनिःस्पृहाः ॥ ३ ॥ ॥ प्रवर्द्धमानोत्तममङ्गलावली, श्रियः सदानन्दरसोर्मित्रर्मिताः । सुखानि विश्वाशयविश्रमास्पदं प्रभो ! वशत्वं नयते तव स्तवः "Aho Shrut Gyanam" 113 11 ॥ ४ ॥
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy