SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सञ्चयः चैत्रे शितौ पञ्चमिकातिथौ यः, श्रीलक्ष्मणाकुक्षिमलञ्चकार । चन्द्रप्रमः श्रामहसेनभूप-कुलाब्जहंसः स सतां श्रियेऽस्तु ॥४९॥उपनातिः कृष्णचैत्राष्टमीजातजन्मव्रतं, दर्शितन्यायधर्मव्यवस्थं धुरि। नाभिराजाङ्गजन्मानमाद्यं जिनं, ध्यानसेवानमस्कारमार्ग नये ॥१०॥ स्त्रग्विणी यस्य शुक्ल मधुमामतृतीया-वासरे विमलकेवलमासीत् । तस्य सप्तदशकुन्युजिनेन्द्र-स्यां हियुग्ममहमन्वहमीडे ॥५१॥ स्वागता धवलचैत्रिकमासगपञ्चमी-समुपजातमहोदयसङ्गमान् । अजितशम्भवतीर्थपती तथा, जिनमनन्तमपि प्रणिदधमहे ॥५२॥ ॥ द्रुतविलम्बितम् ॥ चैत्रशुक्लनवमीसमवाप्ता-नन्तमोक्षसुखसङ्गममीशम् । शीलयामि सततं सुमतिं श्री-मङ्गलोदरदरीहरितुल्यम् ॥५३॥ स्वागता चैत्रिकैकादशी सा सिता नो मता, कस्य यस्यामसौ पञ्चमस्तीर्थकृत् । मेघभूपाङ्गभर्भूतलप्रीतिदः, केवलज्ञानलक्ष्मीमुपा द्विभुः ॥५४॥स्रग्विणी मधुमाससितत्रयोदशी-रजनीजातजनुर्महामहम् । त्रिशलातनयं नयाम्यहं, जिनमन्तर्मनस सुवर्णभम् ॥५५॥ वैतालीयम् यस्त्रां सुसीमाधरराजनन्दनः, पद्मप्रभो ज्ञानमवाप पञ्चमम् । . सा पौर्णमासी मधुमासमण्डनं, विखण्डनं नो वितनोतु कर्मणाम् ॥१६॥ उपजातिः। चैत्रः ॥६॥ वैशाखकृष्णप्रतिपत् पवित्रा, कथं न यत्राऽजनि मोक्षलक्ष्मीः । श्रीकुन्थुनाथस्य सुवर्णकान्तेः, श्रीसुरराजेन्द्रतनूद्भवास्य ॥१७॥ इन्द्रवजा उपनातिः यो राधमासस्य शितौ द्वितीया-दिने महानन्दपदं प्रपेदे । श्रीशीतलं भूतलतायिन तं, नन्दातनूज परिपूजयामि ॥५८॥ उपजातिः स्त्रयशसा पृथवे जिनकुन्थवे, नृपतिपूरसुताय नमो नमः । असितमाधवपञ्चभिकातिथौ, य उदुवाह महाव्रतसम्पदम् ॥१९॥ ॥ द्रुतविलम्बितम् ॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy