SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सऊचयः वश्याः श्रयन्ति भगवन् ! मनुजाधिराज श्रीदेवसुन्दररमा शिवसम्पदस्तम् ॥२५॥ (वसन्ततिलका) इतिश्रीसोमसुन्दरपूरिभिरेकर जन्यां कृता श्रीस्तम्भनकपार्श्वनाथपञ्चविंशतिका । श्रीनवखण्डपार्श्वनाथस्तवः (४) (शार्दूल.) स्फूर्मन्नागफणामणीगणसमुद्भूतप्रभूतप्रभा भारोद्भामितभमिमण्डलमहं मन्दोऽपि मोहोदयात् । स्वामिस्त्वां नवखण्डपिण्डिततनुं श्रीपार्श्व ! विश्वेश्वरं, __ घोघासन्नगरप्रधानवसुधालङ्कारभूतं स्तुवे ॥१॥ नागैः संवलितान् निधीन् नव तव स्वामिन्नमून् सङ्गतान् , मूतौ खण्डमिषाद्विभिन्नवपुषोऽप्येकात्मतामागतान् , मन्येऽहं यदि चैतदेवमिह न स्यात् तत्कथं प्राणिना- .. ___ मेतेभ्यः परमा रमा निरुपमाः स्युः सर्वदा शर्मदाः॥२॥ स्वर्गस्थानि मतान्यमूनि सुमनोनाथस्य नाऽहिप्रभोः, पातालालगितानि पन्नगपते! स्वर्गभूमीभुजः । सञ्चिन्त्येति विधिय॑धान्नव सुधाकुण्डानि भूमण्डले, ___मन्ये त्वत्तनुखण्डमण्डलमिषात्तुल्ये तयोः श्रीविभोः ॥३॥ चञ्चच्चारुनवोरुखण्डवपुषस्त्वत्तोऽनिशं सेवकी भूयाऽऽप्तं नवभिग्रहैरिह महास्वामिन् महीयो महः । जाने तेन विहायसि प्रसृमरस्वज्योतिरस्तापर ज्योतिर्मण्डलभाः प्रभान्ति भुवने प्रत्यक्षलक्ष्या अमी ॥४॥ विश्वेऽस्मिन्नधुना कलौ विरसतामाप्ते समस्ते विभो !, लक्ष्याः खण्डमिपान्निराश्रयतया श्रृङ्गारमुख्या रसाः । त्वद्रूपे न्यविशन्नमी शममये श्रित्वा स्वयं शान्तिता, नो चेत्तद्भविनो विभिन्नरसिनम्तोष त्वयीयुः कथम् ? ॥५॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy