SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः । शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ।।३१६।। इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ । विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥३१॥ श्वानकणे शुनस्कर्णः श्वकर्णोऽपि निगद्यते । सैरिभे मह-महिषौ लुलायश्च लुलायुयुक् ॥ ३१८ ॥ सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव-कण्ठेरवौ । केशरी दन्त्यतालव्यः, व्याघ्र द्वीपीव दीपिनः ॥३१९॥ चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोऽष्टपात् । गण्डके खडी खडीरः खड़ो वाघीणसोऽपि च ॥३२॥ दन्त्यतालव्यान्तः, कोले शूकरः सूकरः किरिः। किरः, ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥३२१॥ भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् । गोमायौ फेरु-फेरण्डौ फेरवो भूरिमायवत् ॥३२२॥ भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् । सृगालोऽपि शिवाऽऽबन्तःखिङ्किरः खिलीरा स्त्रियाम् ३२३ भूम्न्युभौ तु शिवाभेदे खट्टाङ्गे वारि-वालुके। भिक्षुभङ्गेऽपि, कीशे तु प्लवंगः सप्लवङ्गमः ॥३२॥ प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटस्तद्वत् कुरङ्गश्च कुरङ्गमः ॥३०५॥ वातायुश्च सवातायुदन्त्यतालव्यपूर्वगः । शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः ॥३२६॥ मृगभेदे कृष्णसारकालसारौ सदन्त्यको ।। "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy