SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः। लाङ्गली नन्तो यन्तो नालिकेरी नालिकेरवत् । नालिकेलो नालीकेरो नालिकेरिश्च पर्णकः ॥ १८६ ॥ चीत्कर्जूर-खजूरौ वर्षपाकी कपीतनः । पीतनकोऽम्नातकश्चाम्रातकः क्रकचच्छदे ॥ १८७ ॥ केतकः केतकी कोविदारे कुद्दालवत् स्मृतः । कुदारो, गजप्रियायां शल्लकी सल्लकीति च ॥१८८॥ सिल्लकी हादिनी हादा तन्निर्यासे तु कुन्दुरुः । त्र्युकारः, कुन्दः पालक्यां पालङ्कीति च वंशके ॥१८९॥ त्वचिसारः त्वक्सारोऽपि शिंशपाऽगरशिंशपा । अगरुवंशलोचना भवेद् वांशीव वंशजा ॥ १९० ॥ तुकाक्षीरी त्वक्षीरी च त्वक्षीरं रोचना च गोः । गोपित्तरोचना, पूगे गूवाकः स्याद् गुवाकवत् ॥१९॥ तद्भेदे चिक्कणं चिकं ताम्बूली कथिता बुधैः । ताम्बूलवल्ल्यां क्रमुकपर्णचूर्णकसंयुजि ॥ १९२ ॥ तम्बुलं च सताम्बूलं तुम्ब्यां तुम्बः सतुम्बकः । तुम्बी तुम्बिरलावूवदालावूरप्यलाबु च ॥ १९३ ॥ लाबुका गुञ्जायां काकचिञ्चिका काकणिन्दिका । काकनन्तिका, गोस्तन्यां मृद्दीका स्याद् मृदीकषा॥१९४॥ रसा द्राक्षा ध्राक्षा कण्ठयां त्रिकण्ट-त्रिककण्टको । गोक्षुरो गोक्षुरु-क्षुरौ गोखुरो गिरिकणिका ॥ १९५ ॥ आस्फोता स्यादास्फोटा च वीरणीमूल आदृतम् । उशीरमुषिरमुशिग् जान्तो लघुलयं लघु ॥ १९६ ।। "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy