SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः। तारे श्वेतं सितं रूप्यं रूपं भीरु सुभीरुकम् । कनके स्वर्ण सुवर्ण स्याद् महारजतान्वितम् ॥ ७६ ।। रजतं हेम हेमोऽस्त्री रुक्मं रुग्मं च रुक्मलम् । शातकुम्भं शातकौम्भं हिरण्यं हिरणं तथा ॥ ७७ ॥ वराटशुक्रयोरप्येतौ स्यातां भर्म-भर्मणी । शृङ्गी शृङ्गिरलङ्कारसुवर्णेऽथाऽऽरकूटके ।। ७८ ॥ आरोऽस्त्री रिरी रीरी च कांस्यं स्याद् बङ्ग-शुल्बजे । कंसं च पञ्चलोहे तु सौराष्ट्रं च सौराष्ट्रकम् ॥ ७९ ॥ पारतः पारदः सूते चलश्च चपलोऽभ्रके। अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा ॥ ८०॥ शिखिग्रीवे तुच्छाञ्जनतुच्छे पुष्पाञ्जने पुनः । पौष्पकं पुष्पकं पुष्पं पुष्पकेतुवदाढकी ॥ ८१ ॥ तूबरी तुबरी प्रोक्ता मृत्तालकं मृतालकम् । मृत्तिका मृत्स्नया मृत्सा, गन्धाश्मनि सुगन्धकः ॥८२॥ सौगन्धिकः सुगन्धश्च गन्धिको गन्धकोऽपि च । गोदन्ते हरितालं स्यात् तालमालमलं तथा ॥ ८३ ॥ मनोगुप्तायां नेपाली नैपाली च मनःशिला । शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् ॥ ८४ ॥ हंसपादे हिङ्गुलोऽस्त्री हिङ्गुलुः स्यादथाश्मजे । गिरिजं गैरेयं शैलं शैलेयं च शिलाजतु ॥ ८५ ।। बोले गोपरसो गोपो रसो गन्धरसान्वितः। रत्ने मणिश्च माणिक्यं वैडूर्य वालवायजे ॥ ८६ ॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy