________________
तृतीयः काण्डः ।
उडूप उडुपस्तरपण्ये तु तर आतरः ॥३२४॥ आतार आतारुरपि, वृद्धयाजीवे तु वाधुषिः । वार्धषिक ऋणे धारोऽस्त्र्युद्वारे प्रतिभूः पुनः ॥३२५॥ लग्नको लग्नः, षोडशमात्रैः करिष-कार्षको । तुला विंशत्या तु भारो भरच शकटीनवत् ॥३२६!! शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके । प्रस्थभागे कुटपः स्यात् कुडवः कुलवोऽपि च ॥३२७॥ द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता । काकनी काकिणी, क्रोशद्वये गव्यूतिरुच्यते ॥३२८॥ गव्यागव्यूते, गोमति गवीश्वर-गवेश्वरौ । गोम्याभीरे तु गोपाल-गोपौ स्यातां, कुटुम्बिनि ॥३२९॥ कार्षकः कर्षकस्तहत् कृषकः कृषिकोऽपि, च । क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥३३०॥ लाङ्गलदण्डे ईषेशे, प्रोक्ता लाङ्गलपद्धतौ । शीता तालव्य-दन्त्यादिनदीभेदेऽपि लाङ्गले ।। ३३१॥ निरीषे तु कुट-कूटौ कुटकं, कुशिके पुनः । कृशिकश्च फलं फालः कुदालच कुदालवत् ॥३३२॥ गोदारणे प्रवयणे तोत्रं प्रतोद-तोदने । आबन्धे तु योत्र-योके कोटीशो लोष्ठभेदने ॥३३३॥ कोटिशः खलवाल्यां तु मेधिर्मेथिश्च शूद्रके । पद्य-पज्जौ क्षत्र-वैश्याजातौ माहेष्यवद् मतः ॥३३४॥ महिष्योऽपि शिल्पिनि तु स्युः कारु-कारि-कारयः ।
"Aho Shrut Gyanam"