SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३८ शब्दरत्नाकरे निचुलोऽवसत्थिकायां स्मृता पर्यस्तिकायुता ॥२२५॥ पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि, कुथे पुनः । वर्णपरिस्तोम-वर्णी परिस्तोमवदास्तरः ॥ २२६ ।। आस्तरणं प्रवेणीयुक् प्रवेणिः प्रतिसीरिका । जवनी जवनिकापि यवनी यमनीति च ॥ २२७ ॥ दृष्ये स्थूलं स्थुडमपि, पटकुट्यां तु केणिका । केणिः, पल्लवादिकृता शय्या संस्तर-प्रस्तरौ ॥ २२८ ॥ स्रस्तरोऽपि च, तल्पे तु शयनं शयनीयवत् । शय्यापि च खट्वायां तु मञ्चवद् मञ्चकः स्मृतः॥२२९॥ पर्योऽपि च पल्यङ्कः, पतद्ग्राह-पतद्ग्रहौ । प्रतिग्रह-प्रतिग्राही पालेऽथो दर्पणे मतः ॥ २३० ॥ मकुरो मुकुरस्तहद् मङ्कुरोऽप्यात्मदर्शवत् । आदर्शो, वस्त्रासने त्वासन्दा-सन्धौ च सन्दवत् ॥२३१॥ सन्दी भोजन आच्छादे एकोक्त्या चोभयोरपि । कशिपुर्दन्त्य-तालव्यमध्यः स्याच्छयनासने ॥ २३२ ॥ एकोत्तयोशीरमौशीरं पलङ्कशा पलङ्कषा। राक्षा रक्षा च लाक्षापि तद्रसे याववद्यतः ॥ २३३ ॥ यावको लक्तकालक्तौ, दीपस्तु कज्जलध्वजे । प्रदीपो दीपवृक्षश्च तालवृन्ते तु वीजनम् ॥ २३४ ॥ व्यजनं मृगचर्मोते धवित्रं च धुवित्रवत् । केशमार्जे कङ्कतिका कङ्कतः काक-कङ्कते ॥ २३५ ॥ कङ्कती, बालक्रीडने गिरिको गिरिवद्गुडः । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy