SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः । क्षत्रिया स्यादुपाध्याय्युपाध्यायाऽऽर्याणिका पुनः । आर्या पुना दिधिर्दिधीषुरपि तडवे ॥ १२७ ॥ दिधिषुर्दिधिपूर्विप्रे लग्रतो दिधिधुर्मतः । दिधिषूरप्यसत्यां तु वर्षणी धर्षणीति च ॥ १२८ ॥ पांशुला पांसुलाऽथ स्यात् पतिः पत्नी च जीवतः । पतिवन्यां, निर्वीरा च वीरा पति-सुतोज्झिता ॥१२९|| भिक्षुकी भिक्षुणी मुण्डा श्रमणा श्रवणाऽपि च । गणिकायां वेश्या वेष्या पण्याङ्गना पणाङ्गना ॥१३०॥ कुट्टन्यां शम्भली दन्त्य-तालव्यादिर्मता बुधैः । कुम्भदास्यां पोटा वोटाऽवस्त्रनार्या तु नग्निका ॥१३॥ नग्ना कोटवी कोट्टवी, ऋतुमत्यां तु पुष्पिता । पुष्पवती चाविरवी निष्पुष्पायां तु निष्कला ॥१३२॥ निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् । रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने ॥१३३॥ सुरतं स्याद् रति-रते पशोधर्म-क्रिये स्मृते । जभनं यभनं, गर्भवत्यां गुर्वी च गुर्विणी ॥ १३४ ॥ प्रसूतायां विजाताख्या प्रजाताप्यथ भ्रूणके । वृधसानो वर्धसानो गरभो गर्भ इत्यपि ॥ १३५ ॥ दोहदं दौहृदं श्रद्धा, पुत्र्यां तु स्यात् स्तनन्धया । स्तनन्धया सूनुः सुतापत्ये, पुत्रेऽपि तोककम् ॥१३६॥ तुगपत्ये, भ्रातृपुत्रे भ्रातृव्यो भ्रात्रीयोऽपि च । पुत्रपुत्रे पौत्रस्तस्य युवापत्ये पुनः स्मृतः ॥ १३७ ।। "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy