SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः । २३ मौष्कुलिर्मोष्कुलो, लिप्सौ लोलगणे लोलुभोऽपि च ॥ ६४ ॥ लोलोऽपि गर्धनो गृष्तु-गृतौ चेहेह ईहने । कामश्च कामना, धृष्टो धृष्णुः स्याद् धृष्णजा सह||६५॥ शुभंयुः शुभसंयुक्ते शुभंयथाप्यहंकृति । अहं योऽयुसंयुक्तः, कामुके कामि कामिनौ ||६६|| कामनः कमनः कम्रः कमरः कमितापि च । कामयिताऽभिक-भीकावन्तेर्दुर्विपरो मनाः ॥ ६७ ॥ विचेतस्यभिशस्ते तु स्यादक्षारित क्षारितौ । तिरस्कारे परीभावः पेरापर्यभितो भवः ॥ ६८ ॥ न्यक्कारः सनिकारः स्यात्, जागरूके तु जागरी । जागरिता, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥ जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् । सांशयिको, दक्षिणा दक्षिण्यो दक्षिणीयकः ॥ ७० ॥ दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते । अच्छे प्रतीक्ष्यो नियपि, पूजिते त्वपचायितः ॥ ७१ ॥ अपचितोऽथार्हणायां पूजा पूज्याऽथ पीनके । बहुलो बहलः स्थूर - स्थूलौ पीवा सपीवरः ॥ ७२ ॥ मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ । तीक्ष्णेऽप्येतौ बृहत्कुक्षौ तुन्दी तुन्दिक तुन्दिलौ ॥७३॥ तुन्दिभोऽप्युदरिकचोदरिलोदरिणौ समौ । १ अन्तर्मनाः, दुर्मनाः, विमनाः । २ पराभवः, परिभवः, अभिभवः । 7 "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy