SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीविजयधर्मसूरिगुरुभ्यो नमः । वाचनाचार्यश्रीसाधुसुन्दरगणिविरचितः श्रीशब्दरत्नाकरः । ध्यालाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः । शब्दरत्नाकरं कुर्वे शब्दभेदार्थसंग्रहम् ॥१॥ अर्हदेवनृतिर्यश्चो नैरेयाः साङ्गकाः समाः। अव्ययाश्च क्रमोऽत्रायं लक्ष्यतां सुखलब्धये ॥ २ ॥ भवेजिनेऽर्हन्नहन्तः सार्वः सर्वीय इत्यपि । तीर्थङ्करस्तीर्थकरः परमेष्ठी ठकारयुक् ॥ ३ ॥ वृषभर्षभौ नाभेये, शंभवे संभवोऽपि च । एकादशजिने श्रेयान् श्रेयांसो, द्वादशार्हति ॥ ४ ॥ वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिद् मतः । विंशे जिने मुनिस्तद्वद् मुनिसुव्रत-सुव्रतौ ॥ ५ ॥ अरिष्टनेमौ नेमिश्च नेमी नन्तोऽपि कथ्यते । श्रीपार्श्वः पार्श्वनाथश्च वामेये, चरमेऽर्हति ॥ ६ ॥ महावीरः स वीरश्च, तुर्यार्हन्तस्य वप्तरि । दन्त्यादिः संवरः, कुन्थुवप्पे शूरश्च सूरयुक् ॥ ७ ॥ मरुदेवा मरुदेव्यप्याद्यान्मातरि स्मृता । तालव्यमध्या त्रिशला, पञ्चमाहदुपासके॥ ८ ॥ १ सप्तदशजिनपितरि । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy