SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे परुत्तनं परुन्त्तमं परुत्नं च, परारिजे ॥४८॥ परात्नं परारिन्तनं परारितनमित्यपि । पार्श्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् ॥४९॥ सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् । अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥५०॥ सनातनं सदातनं शाश्वतिकं च शाश्वतम् । अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च, जङ्गमे ॥५१॥ चरं चराचरं तच्चरिष्णुवदिहाऽस्थिरे । परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् ॥५२॥ चलं चपलं चटुलं कमनं कम्प्रमप्यथ । अधोमुखेऽवनतं स्यादानतम् , कुटिले पुनः ॥५३॥ वक्रं वकं च वक्रिश्चानुगे चान्वगन्वक्षवत् । असहाये चैकाक्येक एककोऽनन्यवृत्तिके ॥५४॥ एकात्सर्गा-ऽयन-ताना-ऽग्राण्ययनगतं तथा । एकाग्रम् , पूर्वे त्वाद्या-ऽऽदी आदिमं प्रग्रमग्रवत् ॥५५॥ चरमेऽन्त्यमन्तिमा-ऽन्तावन्तमं पश्चिमान्वितम् । अपश्चिमं स्वरूपे नञ् पाश्चात्यं पश्च-पश्चिमात् ॥५६॥ . एकशब्दात् सर्गा-ऽयन-तानाऽग्रा-ऽयनगतशब्दाः संबन्धनीयाः, एकसर्गः, एकायनः, एकतानः, एकाग्रः, एकायनगत इति । २ स्वरूपार्थद्योतको नञ् , न तु निषेधद्योतीति ज्ञेयम् ।। __ ३ पश्च-पश्चिमशब्दाभ्यामर्धाऽनुपूयं-भिमुखशब्दा योज्याः, पश्चार्धम् , पश्चा नुपूर्वी, पश्चाभिमुस्वम् : पश्चिमामित्यादि । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy