SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ षष्ठः काण्डः। पीतनीले तु पालाशः पलाशो हरितो हरिः । लोहितो रोहितो रक्ते, पीतरते तु पिङलः ॥ १७ ॥ पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ । श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥१८॥ धूम्रोऽथ कर्बुरश्चित्रः चित्रलोऽपि कल्माषवत् । कल्मासश्च, भवेत् शब्दो निखानो निःस्वनः स्वनः॥१९॥ स्वनिः स्वानो ध्वनिर्ध्वानो निकाणो निक्कणः कणः काणश्च घोष-निर्घोषौ निर्हादो हाद इत्यपि ॥ २० ॥ निनादो निनदो नाद आरावो राव आरवः । रवो विरावः सरावः, क्ष्वेडा वेडित-क्ष्वेलिते ॥ २१ ॥ भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ । सिञ्जाश्वशब्दे हेषा स्याद् हेषा, गर्जस्तु गर्जया ॥२२॥ हस्तिशब्दे, विस्फारश्च विस्फोरोऽपि धनूरवो । मेघशब्दे गर्जितं स्यात् गर्जिवद् ना, खरारवे ॥२३॥ रेषण-रेषे, तन्त्र्यास्तु प्रकाणः प्रकणो रवे । गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥ काकली काकलिङ्घन्दे कदम्बं च कदम्बकम् । समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु ॥ २५ ॥ चक्रवालं चडवाडं चक्रं च चय-संचयौ । शण्ड-षण्डौ, केदाराणां गणे कैदारकं मतम् ॥ २६ ॥ कैदारिकं कैदार्य च, केशानां कैश्य-कैशिके । अश्वीयमाश्वमश्वानाम , वातूलो वात्यया सह ॥२७॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy