SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे सुग्रीवो मण्डषः प्रोक्तो भयुक्तश्चतुष्पदः । चतुर्भिस्त्रिपदैः कर्णनिगमः प्रागुदाहृतः ।। १७ ।। धराणामेव विंशत्या चतुरुत्सरया युतः । (अस्मद्वासस्तम्भं पडन्ये द्विधरक्षयान्ः) ॥ १८ ॥ सुग्रीवो हर्षनामा च कर्णिकारः पदाधिकः। सिंहश्च सा(ग)भद्रश्च (सुस्तत्री) श्चेति सप्तमः ॥ १९ ॥ सप्तविंशतिरित्युक्ता मण्डपानां समासतः। एषां विचित्ररूपाणां प्रासादाकृतिधारिणाम् ॥ २० ॥ मिश्रकाश्च परिज्ञेया हस्तैर्द्विव्येकमानतः । मूलप्रासादतुल्या वा व्यंशेनार्धन चोर्जिताः ॥ २१ ॥ द्विस्तम्भशुकनासाग्रे विज्ञयः पादमण्डपः । प्रासादभित्तिमानेन मण्डपे भित्तयः स्मृताः ॥ २२ ॥ (सपादसत्रिभागा वा वी स्यु ++ + + + १) । कचिद् भित्तिविहीनांश्च कुयोदाकाशमण्डपान् ॥ २३ ॥ लतिष्वेष विधिः प्रोक्तः सान्धारेषु स्वमानतः। प्रासादो यादृशस्तादृङ् मण्डपोऽपि सदग्रतः ॥ २४ ।। यानि प्रासादनामानि तानि स्युर्मण्डपेष्वपि । वास्तुमेदेन भेदोऽयं मण्डपानां विधीयते ॥ २५ ॥ शतार्धमण्डपस्थानं (नीलार्धं भोजनाय च?) । यज्ञार्थो यतिमुख्यार्थी बिहा(रा)ों नृपालदो(१) ॥ २६ ॥ कार्यों (दशभ्यः) विस्तारो+++नु शतावधेः। हस्तानां संख्यया मानं हस्तेन स्याद् गृहेशितुः ॥ २७ ॥ उपयोगानुसारेण स्वधिया परिकल्पितः । आयतश्चतुरश्रो वा कर्तव्यो नाद्यमण्डपः ॥ २८ ।। शतमष्टोत्तरं ज्येष्ठश्चतुःषष्टिकरोऽवरः । कनिष्ठो मण्डपः कार्यों द्वात्रिंशत्करसंमितः ॥ २९ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy