SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४८ समराङ्गणसूत्रधारे पट्टिकानां (समसूत्रच्छेदानां च संष्टिथः) । पादबन्धोऽयमाख्यातः श्रीवन्धः कथयतेऽधुना ।। १३ ॥ पीठच्छेदस्य मानं तु सप्तविंशतिधा भजेत् । (तीडवर्तिचतुर्भाग?) द्विभागा पद्मपत्रिका ॥ १४ ॥ कणिकां भागिकां कुर्यात् त्रिभागं कुमुदं ततः । छेदमेकं पदं विद्याद भाग (मेडथरार्थ?) तथा ॥ १५ ॥ मकरं भागमेकं च भागं मकरपट्टिकाम् । छेदमेकं पदं विद्यात् कण्ठमेकं पदं तथा ॥ १६ ॥ पट्टिको भागमेकं च वेदी भागं ततः परा । छेदमेकपदं कुर्यात् ततः कण्ठं द्विभागिकम् ॥ १७ ॥ पट्टिका भागमेकं च ++ + पद्मपत्रिका । कपोतं नालिकायुक्तं विदधीत पदत्रयम् ॥ १८ ॥ छेदं च भागिकं कुर्यात् पीठे श्रीवन्धनामनि । श्रीबन्धोऽयं सपाख्यातो वेदीवन्धोऽथ कथ्यते ॥ १९ ॥ भागैरेकानविंशत्या ('पीठस्याच्छोति?) भजेत् । नीडवर्तिश्चतुर्भागा द्विभागा पद्मपत्रिका ।। २० ।। कणिकां पदिकां विद्यात् कुमुदं त्रिपदं तथा । कुर्वीत पदिकं छेदं तद्वन्भेण्ठस्तरं(?) युधः ।। २१ ।। भागेनैकेन मकरं तथा मकरपट्टिकाम् । छेदं पदं ++ कण्ठं भागिका पद्मपत्रिका ।। २२॥ (कर्तव्याः) भागिकी कुर्यात् कुमुदं च त्रिभागिकम् । छेदमेकपदं विद्यात् ततः कण्ठं द्विभागिकम् ।। २३ ।। पट्टिको भागिकी कुर्याद् भागिकीं ++ पट्टिकाम् ।। द्विभागो रसनापट्टाश्छादस्तु पट्टिको भवेत (१) ॥ २४ ॥ १. 'पीठकस्योच्छृितिम् ' इति स्यात् । "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy