________________
२२०
समराङ्गणसूत्रधारे सुता(पिप्ति) प्रेष्यनीचत्वे भक्षयानसुतर्द्धिकृत् । रौद्रं कृतघ्नमवसं याम्यतः सुतवीर्यहृत्(2) ॥ ६४ ॥ सुतोपपीडा रिपुद्धिरर्थसुतानवाप्तिस्तनयार्थसम्पत् । स्वाप्तिनृशंसाद् भयमर्थनाश उक्तः क्रमादित्यपरोन्मुखेषु ।। ६५ ॥ वन्धव्यसत्वे(?) रिपुद्धिरर्थसुताप्तिरग्या गुणसम्पदश्च ।
सुतार्थलब्धिषियात्मजेन दोषास्त्रिया नैऋतदिङ्मुखेषु ॥६६॥ गुणाश्च दोषाश्च यथावदेते निरूपिता द्वारसमाश्रिता ये। ताञ् शिल्पविच्छास्त्रविदां वरिष्ठो विज्ञाय पूज्यत्वमुपैति लोके ।। ६७ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे
द्वारगुणदोषो नाम एकोनचत्वारिंशोऽध्यायः ।।
अथ पीठमानं नाम चत्वारिंशोऽध्यायः ।
देवानां मनुजानां च पीठमानमथोच्यते । पीठं कनीयो भागं च सार्धभागं तु मध्यमम् ।। १ ।। द्विभागमुत्तमं तत् स्यादेषा पीठसमुच्छ्रितिः । महेश्वरस्य विष्णोश्व ब्रह्मणश्चोत्तमं भवेत् ।। २ ॥ इतरेषां च देवानां कर्तव्यं तन्न धीमता। ईश्वरस्य यथाकामं पीठं कार्य विचक्षणः ॥ ३ ॥ यस्मिन् स्थाने विधातव्यो ब्रह्मा विष्णुस्तथैव च । ईश्वरः सवेतः कार्यो न दोषस्तत्र विद्यते ॥ ४ ॥ इतरेषां तु देवानां पीठं भागं समुच्छ्रितम् । यस्य येन विभागेन वास्तुमानं विधीयते ॥ ५ ।। तस्य तेनैव भागेन पीठोच्छ्रायो विधीयते । मनुजानां च पीठानि वेश्मनां देवपीठकैः ॥ ६॥
१. 'पा' ग. पाठः । २. 'रथ', ३. 'र्थि', ४. 'तश्चङ', ५. 'ठके ख. ग. पाठः।
"Aho Shrut Gyanam"