SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ एकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । स्याद् द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी । वसुन्नमनलं नाम त्रितुर्याभ्यां निवेशनम् ।। ४७ ।। वित्तनमाद्यातुर्याभ्यां भस्माख्यं स्वामिनः सदा । उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् ।। ४८ ॥ छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत । दक्षिणोत्तरमूषाणां पौरस्त्ये वहतो यदि ॥ ४९ ।। + काञ्चं नाम तदा वेश्म सज्जनानन्दकारकम् । मूषाभ्यां दक्षिणाभ्यां स्यात् कुलह त्रिकुलक्षयम् ॥ ५० ॥ दक्षिणोत्तरमूपाणां पाश्चात्ये वहतो यदि । 1 विरोध नाम तद्वेश्म सर्वलोकविरोधकृत् ॥५१॥ उक्तान्येवं द्विपञ्चाशद् द्विशालानां समासतः।। एनानि मूपावहनप्रभेदात् फलप्रभेदाच निदर्शितानि । द्विशालवेश्मान्यधुनैकशालान्युदाहियन्ते भवनानि सम्यक् ॥५२॥ शति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः॥ अथ एकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ । शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥ १॥ विन्यसेचतुरः पूर्व गुरूँन् वर्णान् यथाविधि । एभ्य एवं प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥ २॥ १. 'नि', २. ‘खी' क. पाठः। ३. 'लं हन्ति कु' ख. पाठः। ४. 'स्व' क. पाठः। + लक्ष्यपाठानुरोधात् काचमिति पाठ्यम् । लक्ष्ये विरोधीति पठ्यते। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy