SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ११६ समराङ्गणसूत्रधारे पदपश्चद्वित्रितुभिः ककुदं नाम मन्दिरम् । कन्दरं षट्चतुःपञ्चत्रियाधाभिगृहाधमम् ॥ ४६ ॥ अथाष्टादश कथ्यन्ते भेदाः पक्षघ्नसंश्रयाः । तेषु राक्षसमाद्याद्वित्रिचतुर्थीभिरुच्यते ।। ४७ ॥ पञ्चाद्याद्वितृतीयाभिर्धान्तसंघातमीरितम् । पञ्चाद्याद्विचतुर्थीभिर्देवारीति निगद्यते ।। ४८ ॥ आद्यात्रिपञ्चतुर्याभिर्विज्ञेयं देवदारुणम् । पञ्चत्रिद्विचतुर्थीभिर्घोषणं दुःखघोषणम् ॥ ४९ ॥ षडाद्याद्वितृतीयाभिर्व्याघ्रमित्यभिधीयते । आधाद्वितुर्याषष्ठीभिः शार्दूलं स्यान्निवेशनम् ॥ ५० ॥ आद्यात्रितुर्याषष्ठीभिः शोषणं पुत्रशोषणम् । पतुर्याद्वितृतीर्याभिर्विजानीयाद् विशोषणम् ।। ५१ ॥ आधाद्विपञ्चषष्ठीभिमत्तदं नाम मन्दिरम् । निरानन्दाख्यमाद्यात्रिपञ्चषष्ठीभिरुच्यते ॥ ५२ ।। पञ्चषद्वितृतीयाभिः शाकुनं नामतो भवेत् । विघ्नमाद्याचतुःपञ्चषष्ठीभिर्विघ्नवर्धनम् ।। ५३ ॥ निणं षट्चतुःपञ्चद्वितीयाभिरसौख्यकृत् । त्रिचतुःपञ्चषष्ठीभिर्वदन्ति रिपुसंहदम् ॥ ५४ ॥ षट्पञ्चतुर्याच्या(घा)भिः पक्षनं सुतनाशनम् । षट्पञ्चद्वित्रितुर्याभिः सुतघ्नं सुतसूदनम् ॥ ५५ ॥ षट्पञ्चद्वित्रितुर्याद्या यत्र तद् वैरिपूरणम् । पक्षघ्नस्यानुगान्येवं गृहाण्यष्टादश क्रमात् ॥ ५६ ।। चतुराद्यास्त्रिशालेषु मूषा बाह्या न चान्तरा । स्याद् विनाद्यां द्वितीयां च त्रिशालं पञ्चभद्रकम् ॥ ५७ ॥ बाह्यतः क्रममुत्सृज्य त्रिशालविधिरीरितः। 9. 'पो' क. पाठः । २. 'के', ३. 'विधाले वि' ख. पाठः । "Aho Shrut Gyanam" |
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy