SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चतुःशालविधानं नामैकोनविंशोऽध्यायः । वाजि नेत्रं भ्रमं घोषं सप्तभद्राण्यतः परम् । भाण्डीरं *वैसंहं प्रस्थं प्रतानं वासुलं कटम् || ६८ ॥ लक्ष्मीवासं सुगन्धान्तमष्टधैतानि नामतः । अन्यच्च सर्वतोभद्रमेकं भद्राभिरष्टभिः ।। ६९ ।। संप्रकल्प्यं चतुःशालं ब्रूमचैषां शुभाशुभम् । प्रदक्षिणा शुभा मूषा विपरीता विपर्यये ॥ ७० ॥ समवाये यथा भूयो जानीयात् साध्वसाधु च । तथाष्टावे भद्राणि सप्तभद्राणि च क्रमात् ॥ ७१ ॥ द्विभद्राण्यभिर्युक्ता पद्मद्राणि च विंशतिः । षट्पञ्चाशत् त्रिभद्राणि पञ्चभद्राणि चोन्नयेत् ॥ ७२ ॥ सप्ततिश्च चतुर्भद्राण्येकं भद्राभिरष्टभिः । एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥ ७३ ॥ भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु । मूपा स्यात् कुड्यस्तेषु चतुरशालेषु वेश्मसु ॥ ७४ ॥ अनुवंशाश्रिते मृषे स्वस्तिके तत्पराङ्मुखे । मुखायते च पुरतो द्वे स्यातामवकोशिमे ।। ७५ । नोदङ्मुखः स कर्तव्यः कार्यः प्रारजीव संयुतः ( 2 ) । वर्धमाने तथा का(?र्यो) यथा प्रारग्रीवसंयुतः ॥ ७६ ॥ वर्धमाने तथा कार्य द्वारमूपे मुखायते । मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥ ७७ ॥ नन्द्यावर्त सर्वा नन्द्यावर्ता भवन्ति ताः । द्वे (स्तरुम् ) षे रुचके स्यातामायते त्ववकोसिमे ॥ ७८ ॥ सर्वद्वारवहा मूषाः सर्वतोभद्रवेश्मनि । आदिषा भवेदेका गृहं प्रागायतं हि तत् ॥ ७९ ॥ द्वितीयया प्राविलग्नमेकया तदनन्तरम् । प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥ ८० ॥ 1. 'सर्भ क. पाठः * लक्षणानुसाराद् वैसनमिति पाठ्यम् । "Aho Shrut Gyanam" ९०
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy