SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः। वृद्धिर्जनपदस्य स्यात् तथा पापण्डिनामपि ॥ १५५ ।। यदि किञ्चिद् व्रजेत् पूर्व रज्ज्वाकृष्टः शतक्रतुः । विजिगीपोर्नरेन्द्रस्य तदा यात्रा प्रसिध्यति ॥ १५६ ॥ प्रतिष्ठां लभते भूमौ भ्रमं भिवा यदि वजः।। सशैलकाननामुर्वी तदा जयति पार्थिवः ॥ १५७ ॥ दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वत्रिणः । विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥ १५८ !! यदि स्वल कृतः पूर्व योज्यमानः शतक्रतुः । उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ।। १५९ ॥ शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ । तदा नृपं राजदारान् कुमार वा विनाशयेत् ।। १६० ॥ उत्थितोऽोत्थितो वापि यदि क्षुभ्यति कम्पते । स्थानान्तरं ब्रजेद् वापि सञ्चरेद् वा कथञ्चन ॥ १६१ ।। विगृह्यते तदा भूपो भ्रश्यति स्थानतोऽपि वा। भयाजनपदो वास्य चलत्येव न संशयः ॥ १६२ ॥ आकृष्टासु यदाष्टासुच्छिद्यते कापि रज्जुषु ।। अमात्यमरणं तत् स्यादेककांशेन निश्चितम् ॥ १६३ ॥ मूलमध्याग्रभागे वा प्रोच्छ्रितो यदि भैज्यते । पौरसेनापतिनृपान् क्रमशो हन्त्यसौ तदा ॥ १६४ ॥ छत्रार्कवेणुगुल्मेन्द्रशीर्षकण्ठगुणा यदि । पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥ १६५ ।। नृपो वधमवाभोति तैभन्नैः पतितधुतैः । अभग्नविधुतैरेतैः क्षयं व्रजति साधनम् ॥ १६६ ।। क्रमशो हन्युरादर्शवैजयन्तीन्दुतारकाः । पतन्त्यो दृश्चमूनाथपुरोधःस्त्रीमहीपतेः ॥ १६७ ॥ १. 'श्यते', २. 'भिद्यते', ३. 'ई' ४. ' द्रुतै' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy