SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ परि. ७ सु. ४] स्याद्वाद्रत्नाकरसहितः तदेवं नयस्य प्रमाणाद्भेदेन प्रसिद्धेस्तल्लक्षणप्रणयनमनुपपन्नमेवेति । तथा च श्रुतार्थांशांश एवेह योऽभिप्रायः प्रवर्तते ।। इतरांशाप्रतिक्षेपी स नयः सुव्यवस्थितः ॥ ७१४ ॥ इति नयनगरद्वारे मङ्गलकलशोपमं प्रथमसूत्रम् । ५ सद्युक्तिसुधानिभृतं सुवर्णघटितं चिरं स्थेयात् ॥ ७१५ ॥ १ ॥ उक्तं नयस्य सामान्यलक्षणमिदानी नयाभासस्य तदर्शयितुमाहस्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभास इति ॥२॥ स्वाभिप्रेतात्स्वगोचरीकृतादंशाच्छूतार्थस्यैकदेशादितरांशापलापी, १० अपरैकदेशप्रतिक्षेपी पुनःशब्दो नयादस्य विशेष द्योतयति । नयाभासो नयप्रतिबिम्बमात्रं दुर्नय इत्यर्थः । यथा तीथिकानां नित्यायेकान्तप्रदर्शकं सकलं वाक्यमिति ॥ २॥ अथ नयप्रकारसूचनायाह-- स व्याससमासाभ्यां द्विप्रकार इति ॥३॥ १५ स प्राकरणिको नयो व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विप्रकारो व्यासनयः समासनयश्चेत्यर्थः ॥ ३ ॥ व्यासनयप्रकारप्रकाशनायाहव्यासतोऽनेकविकल्प इति ॥४॥ व्यासतो विस्तरतो यो नयः सोऽनेकविकल्पोऽनेकप्रकारः । २० एकांशे गोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमभिहितम् । ततश्चानन्तांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपतॄणामभिप्रायास्तावन्तो नयास्ते च (नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ) ॥ ४ ॥
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy