SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सु. ७५ ल्यतः संदिग्ध एव । ततः शौद्धोदनेः सकाशाद्रागादिमत्त्वव्यावृत्तेः संशयात्संदिग्धसाधनव्यतिरेकत्वमिति ।। ७५ ॥ न वीतरागः कपिलः, करुणास्पदेष्वपि परमकृपया. नर्पितनिजपिशितशकलत्वात् । यस्तु वीतरागः स ५ करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा तपनबन्धुरिति संदिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागत्वाभावस्य करुणास्पदेध्वपि परमकृपयानर्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः संदेहादिति ॥ ७६ ॥ १०. अत्रापीदं रहस्यम् । तपनबन्धुरितिशब्देन किल बुद्धौ वैधर्म्य दृष्टान्ततया यः समुपन्यस्तः स न ज्ञायते । किं रागादिमानुत वीतरागस्तथा करुणास्पदेषु परमकृपया निजपिशितशकलानि समर्पितवान्न वा । तन्निश्चायकप्रमाणाभावात् । ततः सिद्धमत्र संदिग्धोभय व्यतिरेकत्वमिति ।। ७६ ॥ १५ न वीतरागः कचिद्विवक्षितः पुरुषो वक्तृत्वात् । यः पुनर्वीतरागो न स वक्ता यथोपलखण्ड इत्य व्यतिरेक इति ॥ ७७ ॥ यद्यपि किलोपलखण्डादुभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकत्वमिति ॥ ७७ ॥ २० अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शित व्यतिरेक इति ॥ ७८ ॥ अत्र यदनित्यं न भवति तत्कृतकमपि न भवतीति विद्यमानोऽपि व्यतिरेको वादिना वचनेनोद्भावित इत्यप्रदर्शितव्यतिरेकत्वमिति॥७८॥
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy