SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ परि. ६ सू. ३८ ] स्याद्वादरत्नाकरसहितः २००७ तर्कामासमाह - असत्यामपि व्याप्तौ तदवभासस्तर्काभास इति ॥ ३५ ॥ अविद्यमानायामपि व्याप्तावन्यथानुपपत्तिनामिकायां यस्तस्या व्याप्रवभासः स तर्काभासः || ३५ ॥ उदाहरणमाह- स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति यथेति ॥ ३६ ॥ न हि मैत्रतनयत्वाख्यस्य साधनस्य श्यामत्वेन साध्येनान्यथानुपपत्त्यापरपर्याया व्याप्तिः प्रतीयते । शाकाद्याहारपरिणतिपूर्वकत्वप्रयुक्तत्वा- १० च्छयामताया: । यो हि जनन्युपभुक्तशाकाद्याहारपरिणाम पूर्वकस्तनयः स एव श्याम इति शाकाद्याहारपरिणतिपूर्वकत्वस्यैव श्यामत्वेन साध्येन व्याप्तिः । न पुनर्मैत्रतनयत्वस्य । ततश्च स श्यामो मैत्रतनयत्वादित्यत्रानुमाने यावान्मैत्रतनयः स श्याम इति सर्वाक्षेपेण यः प्रत्ययः स तर्काभास एव । प्रोक्तन्यायेनासत्यामपि व्याप्तौ प्रवृत्तत्वा- १५ दिति ॥ ३६ ॥ अथानुमानाभासमाह पक्षाभासादिसमुत्थं ज्ञानमनुमाना भासमिति ॥ ३७ ॥ पक्षाभास आदिर्येषां हेत्वाभासप्रभृतीनां ते पक्षाभासादयो वक्ष्यमाणलक्षणास्तेभ्यः समुत्था उत्पत्तिरस्येति पक्षाभासादिसमुत्थं ज्ञानमनु- २० मानामासमिति प्रतिपाद्यते । एतच्च यदा स्वप्रतिपत्त्यर्थं तदा स्वार्थानुमानामासं, यदा तु परप्रतिपत्त्यर्थं पक्षादिवचनरूपापत्रं तदा परार्थानुमानाभासमवसेयमिति ॥ ३७ ॥ पक्षाभासांस्तावदाह
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy