SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ परि ६ सू. ३० ] स्याद्वादरत्नाकर सहितः इत्थं सामान्यतः प्रमाणस्वरूपाभासमभिधाय विशेषतस्तदभिधित्सुः सांव्यवहारिकप्रत्यक्षाभासं तावदाह सांव्यवहारिक प्रत्यक्षमिव यदा भासते तत्तदाभा समिति ॥ २७ ॥ सांव्यवहारिकप्रत्यक्ष मिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागुपवर्णितस्वरूपं प्रतिपत्तव्यम् || २७ ॥ १००५: ―― པ་ उदाहरणमाह यथाम्बुधरेषु गन्धर्वनगरज्ञानं दुःखे सुखज्ञानं चेति ॥ २८ ॥ अत्राद्यं निदर्शनमिन्द्रियनिबन्धनाभासस्य द्वितीयं पुनरिन्द्रियनि- १० बन्धनाभासस्य । अवग्रहाभासादयस्तु तद्भेदाः स्वयमेव प्राज्ञैर्विवेचनीयाः || २८ ॥ पारमार्थिकप्रत्यक्षाभास मिदानीमा वेदयन्नाह--- पारमार्थिक प्रत्यक्षमिव यदाभासते तचदाभासमिति ॥ २९ ॥ १५ पारमार्थिकप्रत्यक्षं विकलसकलस्वरूपतया द्विभेदं यथोक्तमवधार्यम् ॥ २९ ॥ निदर्शनमाह- यथा शिवाख्यस्य राजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सद्वीपसमुद्रज्ञानमिति ॥ ३० ॥ २० शिवाल्यो राजर्षिः स्वसमयप्रसिद्धः, तस्य किल विभङ्गापरपर्यायमवध्याभासं तादृशसंवेदनमा विर्बभूवेत्याहुः सैद्धान्ताः । मनःपर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न सम्भवति । एकस्य संयमविशुद्धि १ शिवराजर्षिचरितं भ. सू. श. ९ उ. ११ सू. ४१८ तो ज्ञेयम् ।
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy