SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ૨૮ ५ प्रमाणनयतत्वालोकालङ्कारः कथंचित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानादिति ॥ १३ ॥ कथंचिदिति वक्ष्यमाणेन प्रकारेण ) रूपस्य साक्षात्फलस्य न केवलमुपादानवुद्ध्यादेव्र्व्यवहितफलस्येत्यपिशब्दार्थः ॥ १३ ॥ [ परि. ६ सू. १३ **** एवं व्यवस्थानमपि कुतः सिद्धमित्याह--- साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वादिति ॥ १४ ॥ यमान आह ये हि साध्यसाधनभावेन प्रतीयेते परस्परं भिद्येते यथा कुठारच्छिदे । साध्यसाधनभावेन प्रतीयेते च प्रमाणाज्ञाननिवृत्त्याख्यफले ॥ १४ ॥ १०. अस्यैव हेतोरसिद्धतां पराजिहीर्षुः प्रमाणस्य साधनत्यं तावत्समर्थ -- प्रमाणं हि करणाख्यं साधनं स्वपरव्यवसितो साधक्तमत्वादिति ॥ १५ ॥ यत्खलु क्रियायां साधकतमं तत्करणाख्यं साधनं, यथा परश्वधः १५ साधकतमं च परव्यवसितौ प्रमाणमिति ॥ १५ ॥ अथ फलस्य साध्यत्वं समर्थयन्ते स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु. साध्यं प्रमाणनिष्पाद्यत्वादिति ॥ १६ ॥ यत्प्रमाणनिष्पाद्यं तत्साध्यं यथोपादानबुद्धयादिकं प्रमाण २० निष्पाद्यं च प्रकृतं फलमिति । तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोने व्यवस्था तद्भाव-विरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा I
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy