SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ९९६ १० प्रमाणनयतत्त्वा लोकालङ्कारः [ परि. ६ सू. प्रमाणफलं प्रमाणाद्भिन्नमेवेति यौगाः, अभिन्नमेवेति ताथाग्रताः, इत्येकान्तद्वयनिरासार्थं स्वमतं प्रमाणतो व्यवस्थापयन्नाह- ततः प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपत्तेरिति ॥ ६ ॥ तत् सामान्यलक्षणलक्षितं फलं धर्मे प्रमाणतः स्याद्भिन्नमभिन्नं चेति साध्यो धर्मः प्रमाणफलत्वान्यथानुपपत्तेरिति हेतुः || ६ || अथास्य हेतोर्व्यभिचारं पराकुर्वन्नाह- उपादान बुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन तोर्व्यभिचार इति न विभावनीयमिति ॥ ७॥ प्रमाणफलं च भविष्यति प्रमाणात्सर्वथा भिन्नं च भविष्यति । यथोपादानयुद्धयादिकमिति न परामर्शनीयं यौगैरित्यर्थः ॥ ७ ॥ कुत इत्याह--- तस्यैकप्रमातृतादात्म्येन प्रमाणभेदव्यवस्थितेरिति तस्योपादानबुद्धयादेर्व्यवहितफलस्यैकप्रमातृतादात्म्येनैकेन प्रमाता १५ सह तादात्म्यमविष्वग्भावस्तेन कृत्वा किमित्याह - प्रमाणात्सकाशादभेदव्यवस्थितेः प्रमाणेन समं तादात्म्योपपत्तेर्हेतोर्व्यभिचार इति नः विभावनीयमिति प्राक्तनेन योगः ॥ ८ ॥ एकप्रमातृतादात्म्यमपि तस्य कुतः सिद्धमित्याह--- प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतितीतेरिति ॥ ९ ॥ १' प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगच्छताम् । भिन्नं फलमुपेतव्यमेकत्वे तदसंभवात् ॥' इति न्या. मं. पृ. ७१ । २ ' विषयाधिगतिश्चात्र प्रमाणफलमिध्यते । स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यतापि वा ॥ १३४४ || ' इति तत्त्वसंग्रहे ।
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy