SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठः परिच्छेदः। यत्रान्यत्परभागमति न महः पारेऽन्धकारं सदा यस्यावस्थितिरावृतिं न भजते यन्मेघमालादिभिः ।। अस्तं यन्न समेति यच्च परितस्त्रैलोक्यविद्योतकं तज्ज्योतिर्जगतां तनोतु महती तत्त्वावबोधश्रियम् ॥७००॥ एवं प्रमाणस्य लक्षणसंख्याविषयान्प्ररूप्य फलं प्ररूपयन्नाह - ५ यत् प्रमाणेन साध्यते तदस्य फलमिति ॥१॥ . यद्वक्ष्यमाणमज्ञाननिवृत्त्यादिकं प्रमाणेन प्रत्यक्षादिना साध्यते निष्पाद्यते तदस्य प्रमाणस्य फलमवगन्तव्यमिति ॥ १॥ अथैतत्प्रकारसंख्यामाहतद्विविधमानन्तर्येण पारम्पर्येण चेति ॥ २॥ १० एकं प्रमाणस्य फलमानन्तर्येण साक्षादपरं तु पारम्पर्येण व्यवहितमित्यर्थः ।। २॥ - अथाद्यफलाविर्भावनायाह--- तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फल मिति ॥३॥ १५ तत्र तयोरानन्तर्यपारम्पर्यभेदभिन्नयोः फलयोर्मध्यादानन्तर्येण सर्वप्रमाणानामग्दिर्शिज्ञानानां योगिज्ञानानां च ज्ञानस्य विपर्ययादेर्निवृत्तिः प्रध्वंसः स्वपरव्यवसितिस्वरूपा फलं प्रतिपत्तव्यमिति । ननु केवलिनां सदा सर्वप्रमेयस्य प्रत्यक्षत्वादज्ञाननिवृत्तिः फलभाव इति चेत् । मैवम् । प्रतिसमयमशेषार्थविषयाज्ञाननिवृत्तिपरि- २० णतेः फलरूपायास्तेषां सद्भावात् । ननु प्रथमसमय एवाशेषार्थप्रकाश
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy