SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७८८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ ' सर्वेषां नाशहेतूनां वैकल्यप्रतिबन्धयोः । सर्वदाऽसंभवान्नाशः सापेक्षोऽपि ध्रुवत्वभाक् ।। एवं च ध्रुवभावित्वस्यानपेक्षत्वावष्टम्भस्तम्भस्य भग्नत्वान्नाशस्यानपेक्षत्वमसिद्धम् । किं च । अत्र कोऽयं नाशोऽनपेक्षतया ५ विवक्षितः । किं विनश्यतीति विनाशोऽनवस्थायिभावस्वभावः पर्यु. दासप्रतिषेधरूपः । किं वा विनशनं विनाशोऽभावमात्र प्रसज्यत्रतिषेधरूपम् । नाद्यः कल्पः । अनवस्थायिभावस्वभावस्याहेतुकत्वेन केनाप्यनभ्युपगतत्वेनासिद्धत्वात् । द्वितीयपक्षेऽपि प्रसज्यरूपो यद्ययमहेतुस्तदा सदा सत्त्वमसत्त्वं वा स्यात् व्योमवद् व्योमाम्बुरुहवच्च । तथा च प्रथमपक्षे भावाभावयोर्यदि विरोधस्तदा कदाचिद् भावोपलम्भो न भवेत् । अथाविरोधस्तयोस्तदा भावाभावयोः सद्भावस्निग्धवान्धवयोरिख युगपदेकत्वावस्थानं स्यात् । द्वितीयपक्षेऽपि समस्तवस्तूनां शाश्वतिकताप्रसक्तिः स्वविरोधिनो नाशस्य सदैवासत्त्वात् । ननु नास्माकं भावस्य किंचिद् भवति १५ केवलमेकक्षणायुः स्वकारणादुत्पन्नः क्षणान्तरे स एव न भवति । तथाच रहस्यम्-न तस्य किंचिद् भवति न भवत्येव केवलम् । इति ! अहो चिराय सुहृदा स्वरहस्योपदर्शनेनानन्दिताः स्मः । परमिदमपि समसूक्ष्मदृष्टिभूत्वा परिभावयित्वायुष्मान् भवतात् । अनन्तरभवनं भवत् तावत् कदाचित्कतयोत्पत्तिमदिति देवेनापि दुर्वारम् । अत एव चाभवनस्य विनाशितया भवनोन्मज्जनं प्रसज्यमानं प्रतिषेधयितुं त्वया कथं शक्यम् । अथ न भवतीति भवनक्रियाप्रतिषेधमात्रमहेतुकमेतत् तत्कथमस्य कादाचित्कत्वं स्यादिति चेत् । उच्यते । भवनस्य कादाचित्क १' प्रसज्य प्रतिषेधो हि क्रियया सह यत्र नम् । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन् ।' इति प्रसज्यप्रतिषेधस्य पर्युदासस्य च लक्षणम् । असूर्यपश्या राजदारा इति प्रसज्यप्रतिषेधस्योदाहरणम्। अब्राझणमानयति पुर्युदासस्योदाहरणम् ॥ "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy