SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ परि. ५.८ ] स्याद्वादरत्नाकरसहितः माना परापरपर्यायसमुदायात्मकत्वात्तस्य । एकान्तेनावयवव्यतिरिक्तस्यावयविनोऽनभ्युपगमात् । एवं चायुक्तमुक्तम् । 'ज्ञानस्यावयविरूपतावियोगेन ' इत्यादि । तैश्च पर्यायैर्यद्यपि क्षणिका: पर्यायाः प्रतिपन्नास्तथापि तावत् प्रमाणपूर्वापरपर्यायपरम्परात्मा पदार्थः कथंचित् एकत्वेनावस्थितो न तैरवगत इति तद्ग्रहणप्रवणस्तत्पर्यायसमूहस्वरूपस्ते - ५ भ्यः कथंचिद् व्यतिरिक्त उपयोगस्तमवगच्छति । यदप्युदितम् 'आद्यक्षणपरिच्छिन्नः खण्ड एवं संपूर्ण वस्त्विति । तत्र तदप्रविष्टस्य ततो मिन्नत्यादिति हेतौ समुदायप्रवेशाभावस्तत्खण्डस्य सर्वथा कथ्येत कथंचिद्वा । सर्वथा चेत्तदा भिन्नतापि सर्वथा साध्येत कथंचिद्वा । यदि समुदाय सर्वथा प्रवेशाभावात् तत्खण्डस्य सर्वथा भेदः साध्यते तदा १० हेतोरसिद्धिः । खण्डपरंपरात्मक एव दि समुदायः । ततः कथं तस्मिन्नेव खण्डस्य सर्वथा प्रकाशाभावः सिध्धेत् । कथंचिद्भेदसाधने तु विरुद्धता । सर्वथा तत्र प्रवेशाभावस्य सर्वथा भेदेनैवाविना भूतत्वात् । एवं कथंचित् प्रवेशाभावात् सर्वथा भेदसाधनेऽपि विरुद्धतैव कथंचित्प्रवेशाभावात्तु कथं कथंचिद्भेदसाधने सिद्धसाध्यतैव । नचैवं १५ खण्डस्य संपूर्णवस्तुतैव । तस्य तस्मात् कथंचिद्भेदेन संपूर्ण वस्तुतायाः कथंचिन्निवृत्तत्वात् । यदप्युक्तम् अन्यथा क्रमेण प्रतीयमानं विश्वमेकमेव वस्तु स्यात् ' इत्यादि । तदपि न नः प्रतिकूलं संग्रह - नयाभिप्रायेण विश्वस्य प्रत्यक्षस्य चैकत्वेन स्वीकृतत्वात् । क्षणीनिप्पन्नस्यैव स्थैर्यादिति द्वितीयपक्षे त्वनभ्युपगम एवोत्तरम् । अथैंकस्मि - २० नव क्षणे स्थास्तवोऽक्षमतिषु भावाः प्रतिभान्ति न पूर्वं नापि पश्चादिति हेत्वर्थः कथ्यते तदाप्येकक्षणस्थायिनि ज्ञाने तेषां तथाप्रतिभासः स्यात् क्षणत्रयस्थायिनि वा । आद्यकल्पः प्रलापः । अतीतानागतक्षणयोः स्वयमविद्यमानेन तेन तत्र तद्नवस्थानस्य प्रत्येतुमशक्तेः । 6 · १ ' एकस्मिन्वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु संप्रत्ययः संग्रहनयः' इति तत्त्वार्थस्. १-३४ भाष्ये । "Aho Shrut Gyanam" ૭૮૨
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy