SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः ७५९ विशेषः समस्ति यतस्ततोऽप्यकुरोत्पत्तिः स्यादिति चेत् । तर्हि शालेविशेषः कोद्रवादावशालौ नास्तीति कथं ततोऽप्यकुरः स्यात् । अथ यथाऽशालिस्वरूपकोद्रवादावसौ विशेषोऽस्ति तथाऽबीजशिलाशकला. दावपि विद्यते किंतु बीजत्वेन सहैकस्मिन्नर्थे समवेत एवाङ्कुरं प्रति प्रयोजक इति चेत् । नैतदनुपद्रवम् । कोद्रवादावपि तस्य भावेन ५ शालित्वव्यभिचारे शालित्वैकार्थसमवायेनेव शिलादावधि भावेन बीजत्वव्यभिचारे बीजत्वैकार्थसमवायेनापि नियन्तुमशक्यत्वात् । विशेषाभावात् । ततश्च यो यथाभूतो यथाभूतमात्मानमन्वयव्यतिरेकावनु - कारयति तस्य तथाभूतस्यैव तथाभूते सामर्थ्यम् । तद्विशेषास्तु कार्यविशेष प्रति प्रयोजकाः शाल्यादिवदिति न कश्चिद्दव्यपर्यायशक्ति- १० व्यतिरेकोऽवान्तरजातिविशेषः कार्यहेतुरस्तीति नायमपि शक्तिः । नापि पर्यायवैकल्यप्रयुक्तकार्याभाववत्त्वम् । व्याहतत्वात् । तथाहि-यः सहकारिटौकितातिशयस्वरूपपर्यायवैकल्ये सति कार्याभाववान् स कथं तत्पर्यायवियोगे कार्यवान् स्यात् । यद्यदभाव एव यन्न करोति तत्तत्सद्भावे तत्करोत्येवेति तु स्यात् । एवं चोत्तंभ्यतां जैनैर्जयवैजयन्ती १५ स्थैर्यसिद्धेरेवमवश्यंभावात् । तथाहि-यदेव द्रव्यं पूर्वमुच्छ्नतापर्यायण विरहितमेव सत् नाङ्कुरं करोति तदेव तेन परिगतं सदुत्तरकालं करोत्येव । ननु पर्याय एवैकः कारकोऽकारकश्चान्योऽस्तु किं द्रव्येणेति चेत् । न । तस्यापि व्याप्रियमाणस्योपलब्धेः । अस्तु तर्हि कारक यथाव्यापारोपलब्धिः । अनुपलभ्यमानव्यापारस्य तु तस्य पूर्व कारकत्व- २० स्वीकरणम् अमूल्यक्रयणम् । असदेतत् । द्रव्यरूपतया तदानीमपि व्याप्रियमाणस्योपलब्ध्या व्यापारानुपलम्भस्यासिद्धेः । तथाहि-कुसलतलवर्तिनो बीजस्य शिलाशकलादरानुकूलः कश्चिद्विशेषः समस्ति न वा । न तावन्नास्ति शिलाशकलपरिहारेण प्रेक्षाकारिणां बीज एव प्रवृत्तेरनुपपत्तेः । अथास्ति तस्य परम्परयाऽकुरकरणप्रवणबीजक्षणो- २५ त्पादनात् । कदा पुनः परम्परायपि तथाभूतं बीजक्षणमयमुत्पादयिष्यति "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy