SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः (परि. ५ म. ८ क्षिप्तैव । भेदाभेदयोरिव सत्यासत्त्वयोर्विरोधो विधुरयितुं सुशक एव । तन्नाप्रसिद्धविशेषणं पक्षम्य दोषः । यत्तुक्तम् --~-इतरेतराभाव इत्यादि । तदसुन्दरम् । इतरेतराभावस्य घटवम्त्वभेदे घटविनाशे पटाद्यपलब्धि प्रसंगात्पटाद्यभावस्य विनष्टत्वात् । अथ घटाद्भिन्न इतरेतराभावम्तदा ५ घटपटादीनां परस्परं भेदो न स्यात् । यदा हि पटाद्यभावरूपो घटो न भवति तदा घटः पटादिरेव स्वात् । यदा च घटस्य घटाभावाद्भिन्नत्वाद्धटरूपता तथा पटादेराप स्याद्धटाभावाद्भिन्नत्वादेव । नाप्येषां परम्परभिन्नानामभावेन भेदः शक्यते कर्तुं तम्य भिन्नाभिन्नभेदकरणेऽकिंचित्करत्वात् । न चाभिन्नानामन्योन्याभावः १० संभवति । नापि परम्परं भिन्नानामभावेन भेदः क्रियते स्वहेतुभ्य एव भिन्नानामुत्पत्तेः । नापि भेदव्यवहारः क्रियते । यतो भावनामात्मात्मीयरूपेणोत्पत्तिरेव स्वतो भेदः, स च प्रत्यक्षे प्रतिभासनादेव भेदव्यवहारहेतुः । किंच भावाभावयोमेंदो नाभावनिबन्धनः । अनवस्थाप्रसं गात् । अथ स्वरूपेण तयोर्मेदस्तदा भावानामपि स्वरूपेणैव स म्या१५ दिति किमपरेण भावेन कल्पितेन । तन्नैकान्ततो भिन्नोऽभिन्नो वा इतरेतराभावः संभवति । अपि चायं किं स्वतन्त्रो भावध! वा । न तावत्स्वतन्त्रः । तथाविधस्याम्य प्रागेव परास्तत्वात् । अथ भावधर्मः, कम्य पुनर्भावस्य धर्मोऽसौ घटस्य पटम्योभयस्य वा ! यदि घटस्य तत्रापि किं घटस्वरूपस्य निषेधकः पटम्वरूपम्य वा । प्रथमपक्षे किं घट २० एव घटः स्वरूपस्य प्रतिषेधकः पटे वा | प्रथमे पक्षे कथं घटधर्मोऽसौ धर्मिण्येवासत्त्वात् । द्वितीये तु पटे सन्, असन् वा घटमयं निषेधेत् । यदि संस्तदा कथं घटधर्मोऽसौ, तादात्म्येनावस्थानात्तद्धर्मताया एव संभवात् । अथ असंस्तदा घटे घटासत्त्वासत्त्वाद्धटसत्त्वव पटेऽपि घटासत्त्वासत्त्वाद्धटसत्त्वप्रसंग: 1 तन्न घटम्य धर्मः सन्, अस्यैव २५ घटस्वरूपस्य निषेधकोऽसौ । अथ पटम्वरूपस्य निषेधकोऽसौ । तत्रापि किं पटात्मन्येव घटात्मनि वा । नाद्यः पक्षः । पटाभावस्य घटधर्मत्वेन "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy