SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ परि. ५ सू. ८] स्याद्वाद्रत्नाकरसहितः ७३५ नवस्थाप्रसंगः । ततो यथा स्वभावतः पूर्वोत्तरकोटिभ्यां विच्छिन्नत्वेन कालनिरपेक्षः क्षणः प्रतीयते तथा ताभ्यामनवच्छिन्नत्वेनाक्षणिकत्वमपि । सर्वथा क्षणिकत्वं स्वर्थानामुपरिष्टान्न्यक्षेण प्रतिक्षेप्स्यत इत्यलमिहातिप्रसंगेन । पूर्वोत्तराखिलविवर्तसमूहवर्ति द्रव्यस्वभावमिति युक्तिबलात्प्रसिद्धम् । सामान्यमन्वयधियः पदमूर्खताख्यं येन प्रमुक्तमिह किंचन नास्ति वस्तु ।। ५७५ ॥ ५ ॥ अथ विशेषस्य प्रकारप्रकाशनायाह-~विशेषाऽपि द्विरूपो गुणः पर्यायश्चेति ॥ ६॥ १० सर्वेषां विशेषाणां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सहवर्तिविशेषवाचिनः संनिधानेन क्रमवर्तिविशेषवाची गोबलीवर्दन्यायादत्र गृह्यते ॥ ६॥ तत्र गुणं लक्षयतिगुणः सहभावी धर्मों यथात्मनि विज्ञानव्यक्तिश- १५ क्त्यादिरिति ॥७॥ सहभावित्वमत्र लक्षणम् । यथेत्यादिकमुदाहरणम् । विज्ञानव्यक्तियत्किंचिज्ज्ञानं तदानीं विद्यमानम् । विज्ञानशक्तिरुत्तरज्ञानपरिणामयोग्यता । आदिशब्दासुखपरिस्पन्दयौवनादयो गृह्यन्ते ।। ७ ।। पर्यायभिदानी निरूपयन्नाहपर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिरिति ॥८॥ पूर्णतया । "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy