________________
९४८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ८ स्पन्दनादेः कर्मणोऽनियतदिग्देशसंयोगविभागहेतुत्येनैक्यात्कथं तत्संख्याव्याघातः । तर्हि, उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणानामपि नियतदिग्देशसंयोगविभागकारणत्वेनैक्यादनियतदिग्देशं नियतदिग्देशमिति द्वावेव
कर्मभेदी भवेतामिति कथं न सत्संख्यापरिक्षयः । अथ तदविशेषेऽप्यवान्त. ५ रविशेषसमुद्भवादुत्क्षेपणादिभेदपरिकल्पना तर्हि तत एव । तदविशेषेऽपि भ्रमणस्पन्दनादिभेदकल्पनापि किं न स्यात् । अथ यदि भ्रमणस्पन्दनादेरुत्क्षेपणादिवद्भिन्नजातीयत्वं स्यात्तदानीमेकत्रैकदैव कर्मद्वयं युज्यते । रूपादिवढ्याप्यवृत्तित्वात्कर्मणः । तस्मादेकमेवेदं गमनाख्यं
कर्मेति निीयते भ्रमति स्पन्दते चेति । प्रत्ययभेदस्तु तत्तत्संयोग१० विभागहेतुक इति चेत्तर्हि, उत्क्षेपणादि भ्रमणादि चैकमेव कर्म
स्वीकर्तव्यम् । भवति हि भ्रमद्भमरकादौ दारकेण करतलेनोक्षिप्यमाणे भ्रमणोत्क्षेपणप्रतीतिरिति । अनियतदिग्देशसंयोगविभागकारणं भ्रमणादिकमेव गमनशब्देनोच्यते । उत्क्षेपणादिषु तु तथाप्रत्ययो भाक्त इति
कश्चित्तस्यापि न पञ्चतैवं कर्मणि व्यवतिष्ठते । विपर्ययस्यापि कल्प१५ यितुं सुशकत्वात् । नियतदिग्देशसंयोगविभागकारणमुत्क्षेपणादिक
मेव गमनशब्देनोच्यते । भ्रमणादिषु तु गमनप्रत्ययो भाक्त इत्यपि हि बदतां न नाम वक्त्रं कश्चित्प्रतिरुणद्धि । तथा चोत्क्षेपणादि. चतुष्टयस्य गमनरूपतयैक्यात् भ्रमणादीनां च भूयस्त्वात्कुतो न तत्संख्याव्याहतिः । न चोत्क्षेपणादौ गमनप्रत्ययो बाध्यते । यतस्तस्य भाक्तत्वं तत्र भवेत् । यच्चैतत्कर्मणां साधर्म्यमुच्यते । उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसंबन्ध एकद्रव्यवत्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं अगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसंयोगजन्यत्वं स्वकार्यसंयोगिविरोधित्वसमवायिकारणत्वं संयोगविभागनिरपेक्षकारणत्वं स्वपराश्रयसमवेत
कार्यारम्भकत्वं समानजातीयानारम्भकत्वं प्रतिनियतजातियोगित्वं चेति। २५ तत्र कर्मत्वाभिसंबन्धः प्राक्परास्तः । एकद्रव्यत्वमिति कोऽर्थः । एक
दैकस्मिन्द्रव्ये एकमेव कर्म वर्तत एकं कर्म एकत्रैव द्रव्ये वर्तत इति
२०
"Aho Shrut Gyanam"