________________
.८८८
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५ सू. ८
सिद्धे चास्मिन्नुपन्यस्तं यत्पुरा साधनं त्वया । स्थूलस्याभावसंसिद्धौ तदसिद्धमिति स्थितम् ॥ ६५५ ।। त एव च स्थूलतथाविधाकृति
च्युता अपीत्यादि यदप्यलप्यत । तदप्यशेष गदितोत्तरक्रमा
दपास्तमेवेति बुधेन बुध्यताम् ॥ ६५६ ।। परिहर ततो दूरादेतान्कलक्कविसंस्थुला
नवयविकथाच्छेदे विद्वन्नलीकमनोरथान् ।। न खलु विदुषां निन्दापात्रे कथंचन कश्चन ____ कवन कुरुते प्रेक्षाकारी परिग्रहपातकम् ॥ ६५७ ॥ एवं च महीप्रमुखं द्रव्यचतुष्कं कणादनिर्दिष्टम् ।
कथमपि नोपैति घटां यन्नित्यानित्यतास्पदं सिद्धम् ।। ६५८॥ यदप्युक्तम्- 'आकाशकालदिश इतरेभ्यो भिद्यन्ते' इत्यादि । तत्र दिशोऽसत्त्वेन वक्ष्यमाणत्वात्पक्षकदेशासिद्धो हेतुः । आकाशे तु द्वयी वि१५ प्रतिपत्तिरावयोरेकान्तनित्यत्वे निरंशत्वे च । तत्रैकान्तनित्यत्वमपहस्तितं प्रागेव । निरंशत्त्वं तु निरस्यते ।
अथ कथमेवं शक्यं निरंशमाकाशम्, सर्वजगद्यापित्वात् । यन्न आकाशस्य निरंशत्व- निरंशं न तत्तथा दृष्टम् । यथा घटः । न च न
खण्डनम् । तथेदं तस्मात्तथा, इत्यनुमानस्य निरंशत्वसिद्धौ २० बद्धकक्षस्य सत्त्वात् । तदयुक्तम् । पक्षम्यानुमानेन बाधितत्वात् । तथा
हि-- नाकाशमनंशम् , सकृद्भिन्नदेशद्रव्यसंबद्धत्वात् । काण्डपेटवत् , इति । यदप्युच्यते- 'निरंशमाकाशं सदावयवानारभ्यत्वात्परमाणुवत् इति । तदप्यनेनैव निरस्तम् । अनुमानबाधितपक्षत्वाविशेषात् ।
किं च यदि सर्वथा सदावयवानारभ्यत्वं हेतुस्तदा प्रतिवाद्यसिद्धः २५ पर्यायार्थादेशात्पूर्वपूर्वाकाशप्रदेशेभ्य उत्तरोत्तराकाशप्रदेशोत्पत्तेः कथं.
१ ध्वजदण्डस्यवस्त्रवत् ।
"Aho Shrut Gyanam"